This page has not been fully proofread.

द्वितीयसर्गः
 
रान्ति सुखमित्यरातयः शात्रवाः 'अभिवातिपरारातिप्रत्यथिपरिपन्थिनः '
इति शत्रुपर्यायेष्वमरः । तेषाम् लक्ष्मीः राज्यलक्ष्मीः । तस्याः कच
संचयानाम् केशपाशानाम् आकर्ष: आकर्षणम् प्रसह्य ग्रहणम् ।
आङ्पूर्वात् कृषेर्धञ् । तस्य तत्सम्बन्धिनीम् तद्विषयिकामित्यर्थः ।
शिक्ष्यत इति शिक्षा गुरूपदिष्टा विद्या शिक्ष विद्योपादाने -
'कर्मणि गुरोश्च हल' इत्यङ् । ताम् शीलयन्तम् अभ्यस्यन्तम्
पुनपुनरावर्तयन्तमिव स्थितम् ।
थिल्यं स्यादिति हेतोरिति भावः । शील उपधारणे - उपधारण
मभ्यासः इत्यर्थकाच्चुरादिण्यन्तात् शतृप्रत्ययः । कुमारकृतमुष्टिसंकोच
विकासयोस्स्वतस्सिद्धयोः कविप्रौढोक्त्या शत्रुराज्यलक्ष्मीकचाकर्षणविद्या
भ्याससंपादक़त्वेन वर्णनमवेति क्रियोत्प्रेक्षेयम् ॥
 
आम्नायानामयोगेन विद्यायाः प्रश
 
पादावादौ प्रब्रूते
 
-
 
1
 
कुमारे सामुद्रिकशास्त्रसंगदितानि महापुरुषलक्षणानि प्रस्तुवती
 
आलक्ष्यरेखामयशङ्खचक्र
च्छत्रारविन्दध्वजमीन चिह्नौ ।
प्रवालता प्राङ्ग लिदर्शनीयौ
सुजातपाणी चरणौ वहन्तम् ॥
 
119
 
11 28
 
"
 
11
 
"
 
आलक्ष्येति ॥ आलक्ष्याणि च रेखामयानि च तथोक्तानि ।
तदानीं रेखाणां विकासाभावादस्पष्टानि अतएव ईषदर्शनीयानि रेखारूपा
णीत्यर्थः । आङीषदर्थे । आङ्पूर्वाल्लक्ष दर्शनाङ्कयोरित्यस्मात्कर्मणि
कृत्यतुल्याख्या अजात्या
ण्यत् । रेखामयानीति तादूप्ये मयट् ।
इति समासः । शङ्खानि चक्राणि छत्राणि अरविन्दानि ध्वजाः
मीनाश्च तथोक्ताः । तत्तदाख्यया प्रसिद्धाः । तएव चिह्नानि लक्ष
ताम्राः अरुणा: ताम्रं शुल्बेडरुणे
णानि ययोस्तौ । तादृशौ ।
 
"