This page has not been fully proofread.

द्वितीय सर्गः
 
क़लहंसपोतयोर्वर्णितायास्सादृश्यलक्ष्म्यास्समुल्लासकोऽभवदिति सावयवो
 
29]
 

 
पमेयम, ॥ ॥
 
इत आरभ्य पञ्चभिः श्लोकै: कुमारं वर्णयति । तस्मिन्नसा
धारणदीप्तिमत्तां तावदत्र कथयति
 
प्रकीर्णकाश्मीरपरागगौरै
स्तिरस्कृताभ्यन्तरदीपशोभैः ।
 
-
 
निवार्यमाणं मुहुरुज्जिहानं
ररिष्टगेहं महसां प्ररोहैः ॥
 
(
 
प्रकीर्णेति ॥ प्रकीर्णा: दिक्षु विक्षिप्ता: 'प्रपूर्वात् ॠविक्षेपे'
इत्यस्मात् कर्मणि क्तः । काश्मीरस्य कुङ्क मस्य 'काश्मीरं कुङ्क मेऽपि
स्याट्टङ्कपुष्करमूलयोः' इति मेदिनी । परागाः धूलयः रेणवः कणा
इति यावत् । 'पराग' कौसुमे रेणौ धूलिस्नानीययोरपि इति
मेदिनी । तद्वत् गौरै: अरुणैः 'गौरोऽरुणे सिते पीते' इत्यमरः ।
तिरस्कृताः अन्तर्हिताः अन्तर्धानं प्राप्ताः बहिरप्रकाशा इति यावत् ।
अन्तर्धिरेव तिरस्कारशब्दस्य मुख्योऽर्थः । प्रयुक्ता एवैतस्मिन्नर्थे ' लावण्य
प्रसरतिरस्कृताङ्गलेख ' मित्यादयः कविभिः । अतएव 'तिरोऽन्तर्धा'
..
विति गतिसंज्ञा तन्निमित्तकं तिरसोऽन्यतरस्या' मिति सत्वं च
स्वरसतस्सङ्गच्छते ।
 
अभ्यन्तरदीपानाम्
 
अभ्यन्तरं त्वन्तराल' मित्यमरः ।
 
26
 
गृहमध्यगतप्रदीपानाम्
 
दीपः प्रदीपः' इति च ।
 
दीपपर्यायाश्चान्यत्रैवमुक्ताः । 'दीपस्तु स्नेहाश: कज्जलध्वजः ।
दशेन्धनो गृहमणिर्दोषातिलक इत्यपि ' इति । शोभाः कान्तय' । 'शोभा
कान्तिर्द्युतिश्छविः' इत्यमरः । ताः येषु तथोक्तैः । अरिष्टगेहम् सूति
कागृहम, सन्निहितमित्यर्थ: । 'अरिष्टमशुभे तक्रे सूतिकागार आसवे '
इति मेदिनी । अरिष्टशब्देनैव तदगारस्याप्युक्तौ सन्निधेः प्रतिपत्त्यर्थं
 
(
 
117
 
-
 
>