This page has not been fully proofread.

116
 
मधुराविज़ये
 
शरत्कृशाया इव शैवलिन्या
स्तरङ्ग लग्नं कलहंसशाबम् ॥
 
"
 
S
 
अवैतेति ॥ सः राजा । क्षामा कृशा शरीरयष्टि: तनुलता
यस्याः तस्याः । यष्टिर्लता सरस्सरिः" इत्यनेकार्थमाला । क्षैधातो
रुत्तरस्य निष्ठातस्य मः ।
देव्याः राज्ञयाः । गर्भधारणेन प्रवृद्धाः
अवयवाः प्रसूत्युत्तरकालेऽपचीयन्त इत्येवमुक्तम् । उत्सङ्गम क्रोडम्
अङ्कम् गतम् प्राप्तम् अङ्कस्थितम् अङ्कदुर्ललितमिति यावत् ।
श्रितादिषु ' गमिगम्यादीनामुपसंख्यान ' मिति द्वितीयया समासः । गम्या
दयश्च प्रयोगतो ज्ञेया इति तत्त्वबोधिनी । उत्सङ्गशब्दश्च क्रोडवाची ।
उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणा ' मिति कालि
दासः । अत्र — उत्सङ्गे कोडे इति मल्लिनाधव्याख्या । कुमारम्
शिशुम । कर्म । 'कुमारोऽश्वानुचरके युवराजे शिशौ स्कन्दे'
इति हैमः । शरदि तदाख्यऋतौ कृशायाः क्षीणायाः वर्षतौ समधि
गताया: प्रवाहोल्बणताया अपगमात्तदपेक्षया अल्पप्रवाहाया इत्यर्थः ।
शैवलम् ज़लनीली – तदस्यास्त्यस्यामित्यर्थे 'अत इनिठना ' वितीनिः ।
ऋन्नेभ्य इति ङीप् । शैवलिनी नदी जाह्नवीति
नदी सरित् । 'तरङ्गिणी शैवलिनी' इत्यमरः ।
वीचिषु लग्नम् सक्तम इतस्ततश्चलन्तम् ।
तस्याः तरङ्गेषु
' लग्नं राश्युदये क्लीबं
सक्तलज्जितयोस्त्रिषु ' इति सुधा । कलहंस राजहंसः ' कलहंसस्तु
कादम्बे राजहंसे नृपोत्तमे' इति मेदिनी । स चासो शाबः शिशुः
' पोतः पाकोऽर्भको डिम्भः पृथुकश्शाबकश्शिशुः' इत्यमरः ।
वृक्षादिवत्समासः । व्याप्यव्यापकयोर्व्याप्यस्यैव विशेष्यतेति व्यवस्थायाः
चूत
प्रामाणिकैरङ्गीकृतत्वान्नातिप्रसक्तिरेतादृशसमासेषु । तमिव । अवैक्षत
अपश्यत् दृष्टवान् । अवपूवक़ादीक्ष दर्शन इत्यस्माल्लङ् । देव्याः नद्या
साम्यम्, तरङ्गाणामुत्सङ्गेन सादृश्यं च कविप्रौढोक्तिसिद्धं कुमार
 
यावत् ।
 
" अथ
 

 

 
S
 
25
 
"