This page has not been fully proofread.

द्वितीयसर्गः
 
कृतकृत्यता
 
महाराजस्यैतादृशहर्षपारवश्ये पितृणविमुक्त्या स्वस्य
जातेत्येष प्रधानो हेतुः । मानवस्य ऋणविमुक्ति प्रति महाभारते
वेदव्यास एवमाह -" यज्ञैस्तु देवान् प्रीणाति स्वाध्यायतपसा
मुनीन् । पुत्वैश्श्राद्धैः पिॠश्चापि आनृशंस्येन मानवान् ॥" इति ।
पितृणस्य साधनान्तरासाध्यत्वं श्रुतिरेवमाह " सोऽयं लोकः पुत्त्रे
णैव जय्यः नान्येन कर्मणा
'आत्मानमपि प्रदातुमैच्छ'
दित्यनेन, किमुतान्यत्, सर्वमपि देयमेव तस्यासीदित्यर्थान्तरं दण्डापूपि
कान्यायेनापततीत्यर्थापत्तिरलङ्कारः । 'दण्डापूपिकयार्थान्तरापतनमर्था
 
इति ।
 
S
 
पत्ति " रित्यलङ्कारसर्वस्वसूत्रम् । इमामेव 'काव्यार्थापत्ति' रित्याच
क्षते । अतएव कुवलयानन्दे "कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यत
इत्येतस्य लक्षणं प्रणीतम् । तान्त्रिकाभीष्टार्थापत्तिवारणाय काव्यपद
मिति च व्याचख्युः । एतादृशि प्रस्तावे रघुवंशकर्ता " जनाय शुद्धान्त
चराय शंसते कुमारजन्मामृतसम्मिताक्षरम् । अदेयमासीत्त्रयमेव
भूपतेः शशिप्रभं छत्त्रमुभे च चामरे ॥" इति समाचख्यौ ॥
 
28]
 
66
 
विशृङ्खलास्तस्य गिरा निरीयुः
कारागृहेभ्यो विमतावरोधाः ।
तुलुष्कबन्दीनिवहाय तूर्ण
मागामिने दातुमिवावकाशम् ॥
 
113
 
राज्ञां पट्टाभिषेक़पुत्वजननादिसंतोषसमयेषु कारागृहस्थानां विमो
चनमित्येष सांप्रदायिकस्समुदाचार इति तमत्र कथयति -
 
23
 
"
 
अवरोधाः
 
विशृङ्खला इति ॥ तस्य महाराजस्य । गिरा वाचा
नियोगेनेत्यर्थः । विमताः विपक्षाः शत्रवः । तेषाम्
अन्तःपुरस्त्रियः । कर्तृभूता' । 'अवरोधस्तिरोधाने राजदारेषु तद्गृहे
इत्यमरसुधा । आगामिने अचिरकाल एव संभविष्यते । तुलुष्काणाम्
 
"