मधुराविजयम् /247
This page has not been fully proofread.
मधुराविजये
मित्यमरः । ' कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि ' इति
त्रिकाण्डशेषः । कुन्तलभूमि कुन्तलनामा देश । कुन्तल इति कर्णाट
देशस्यैव नामान्तरम् । विन्ध्यस्य दक्षिणस्थो देशविशेषोऽयमिति
मध्यदेशकथनावसरे नैघण्टुका । विक्रमाङ्कचरित्रे विक्रमादित्यं कर्णाटेन्द्र
इति कुन्तलेन्द्र इति चाभेदेन बिल्हणोऽकथयत् । कर्णाटदेशस्यावधय
एवं निर्णीता' " नर्मदाया दक्षिणेन देशो दक्षिणापथः । तत्र कर्णाट
विषयात्पूर्वेणान्ध्रविषयः । नर्मदाकर्णाटविषययोर्मध्ये महाराष्ट्रविषयः ।
कर्णाटविषयात् दक्षिणेन द्रविडविषयः" इति वात्स्यायनकामसूत्र
व्याख्याने जयमङ्गलः । 'कुन्तलौ देशचिकुरा' विति नानार्थंरत्नमाला ।
ताम् पालयतीति तथोक्तः । कुन्तलभूपो बुक्कराज इत्यर्थः । 'पाल
रक्षण' इति चुरादिण्यन्तात्कर्मण्यण् । सुखयतीति सुखा सुखकारण
भूता । असुखा सुखा भवति सुखायमाना । ताम् । श्रवणमात्रेणैव
श्रोत्रयोस्सुखसम्पादिनीमित्यर्थः । सुखशब्दस्य लोहितादिपाठात् 'लोहित
डाज्भ्यः क्यष्वचनं भृशादिष्वितराणि इति क्यङ् ।
ल्लटरशानच् । मुगागमश्च । सुखादिगणव्याख्यावसरे गणव्याख्या
* सुखादीन्येके लोहितादिष्विच्छन्ति' इति वदन्ती सुखशब्दस्य लोहि
तादिषु पाठमङ्गीचकार । सुतस्य पुत्त्रस्य । जन्म जननम् । तस्
वार्ताम्, वृत्तान्तम् तद्विषयक प्रवृत्तिमित्यर्थः । 'वार्ता प्रवृत्तिवृत्तान्त'
इत्यमरः । हर्षः प्रीतिः । तेन सहितम् यथा तथा सहर्षम् ।
' मुत्प्रीतिः प्रमदो हर्ष: ' इत्यमरः ।
इत्यमरः । 'तेन सहेति सहार्थे बहुव्रीहिः ।
'वोपसर्जन' स्येति सहस्य सभावः। आवेदयते निवेदयित्रे सविनयं
कथयते । जनाय परिचारकसमूहाय । आत्मानम स्वदेहमपि । किमु
तान्यदिति भावः । 'आत्मा यत्नधृतिस्वान्तस्वभावपरमात्मसु ।
जीवबुद्धिशरीरेषु' इति नानार्थरत्नमाला । प्रदातुम् अर्पयितुम् तद
धीनं कर्तुम् । अवाञ्छत् ऐच्छत् अमन्यतेत्यर्थः । वाछि इच्छायाम्
लङ् । तदानीमदेयमेव तस्य नासीदिति तत्प्रमोदातिशय एवं कथ्यते ।
क्यङन्ता
112
9
S