This page has not been fully proofread.

मधुराविजये
 
' वर्तमानसामीप्ये वर्तमानवद्वा' इति वर्तमानसामीप्ये भविष्यति तृच् ।
कीर्तिम् यशः । भावयन्तः चिन्तयन्तः इयती स्यादिति स्मरन्त
इत्यर्थः । भुवोऽवकल्कने – अवकल्कनं चिन्तेत्यस्मात् स्वार्थणिजन्ता
ल्लटश्शतृप्रत्ययः । इवेति सम्भावनायाम् । नूनमित्यर्थ: । हर्षं जुषन्ते
सेवन्त इति हर्षजुषः सन्तोषभाजस्सन्तः । जुष प्रीतिसेवनयोः क्विप् ।
चटुलै: तीक्ष्णै: नितरां शातैः खुराणाम, शफानाम् शफं क्लीवे
खुरः पुमान्' इत्यमरः । अग्राणि शिखराणि तैः । क्षमाम् भूमिम्
क्ष्मावनिर्मेदिनी महिः इति भूमिपर्यायेष्वमरः । उल्लिखन्तः
 
(
 
"
 
"
 
विलिवन्तः खनन्तस्सन्तः । जिहेषिरे हेषांचक्रिरे । अश्वास्तदानीं
महोत्साहभाजो बभूवुरिति भावः । अश्व हर्षोऽपि राज्ञां शुभावहनिमि
त्तेष्वेक इति तदव वर्णितः । हर्षे सति भूमिखननं हृषाकरणं च
तुरङ्गमानां स्वभावः । तादृशसंतोषं प्रति कुमारवहनसञ्जातकीर्तिलाभस्य
कारणत्वेन सम्भावनात्रेत्युत्प्रेयम् । राजवाहत्वं सर्वेषां तेषामसम्भाव्य
मपि तेषां तेषां तथा तथा सम्भावनं न विरुद्धमिति नात्र काचि
दनुपपत्तिः ॥
 
110
 
प्रजारञ्जनमस्मिन् प्रस्तौति -
 
प्रस्तावितो मङ्गलतूर्यघोषैः
 
प्रसारितश्चारणचाटुवादः ।
 
प्रहृष्यतां तत्र पुरे जनानां
कोलाहलः कोऽपि समुज्ज़ज़म्भे ॥
 
॥ 21 ॥
 
प्रस्तावित इति ॥ तत्र तस्मिन् । सप्तम्यास्त्र । पुरे नगरे
विजयापत्तने इत्यर्थः । प्रहृष्यताम् सन्तुष्यताम् सर्वोपद्रवनिवारको
महान्पुरुषो जात इति धियेत्यर्थः । हृष तुष्टौ देवादिकाच्छतरि
रूपम् । जनानाम् पौराणाम् । कोलाहलः कलकल हाससंभाषणा