This page has not been fully proofread.

मधुराविज़ये
 
"
 
खड्सचामरगोलकैः । हस्तसञ्चारिभिः कुर्युः नृत्तं तद्देशिकं मतम् ॥
इति च तल्लक्षणम् ॥
 
कुमारेऽस्मिन्नौदार्यं प्रस्तौति -
 
106
 
9
 
कल्पद्रुमास्तेन हरिष्यमाणां
मत्वा निजां त्यागयशःपताक़ाम् ।
पयोधरप्रेषितपुष्पवर्षा :
 
प्रागेव सन्धानमिवान्वतिष्ठत् ॥
 
(
 
कल्पद्रुमा ' इति ॥ कल्प: संकल्पः वाञ्छितार्थः तेषां द्रुमाः ।
जन्यजनकभावे षष्ठी । योगतः पञ्चापि विवक्षिताः । अतएव बहु
वचनम् । अथवा छत्त्रिणो गच्छन्तीत्यादावच्छत्त्रिषु छत्त्रित्वारोपेण
यथा छत्त्रिशब्दप्रयोगः तद्वद्वाप्युपपद्यते पारिजातादिषु कल्पद्रुमत्वारो
पेण कल्पशब्दप्रयोगः । स्पष्टं चेदं ' सप्तमीशौण्डै' रिति सूत्रे कैयटो
द्द्योतयोः । अतएव ' कल्पद्रुमाणामिव पारिजातः
इति प्रायुञ्जत
महाकवयः । देवतावृक्षाः पञ्चेत्यर्थः ।
 
पञ्चैते देवतरवो मन्दार:
पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्' इत्यमरः ।
 
(
 
"
 
निजाम् आत्मीयाम् त्याग दानम् 'त्यागो दाने च वर्जने ' इति
मेदिनी । तस्मात् यशः तत्प्रभवा कीर्तिः । तस्य पताकाम् वैजय
न्तीम् ध्वजम् असाधारणचिह्नमित्यर्थः । पताका वैजयन्ती स्यात्के
तनं ध्वजमस्त्रिया' मित्यमरः । कल्पवृक्षाणामंशुकवत्त्वं प्रसिद्धम्
एषां पल्लवमंशुकानि कुसुमं मुक्ताः फलं विद्रुमम । वैदूर्यं दल
मङ्कुरो मरकतं हैमं च शाखाशतम् । एते के जगती रुहा वन
जुषोऽप्यज्ञातपूर्वा मया । प्रायस्सारममी दिवो विटपिनः किं तै
र्मयाऽन्यो भरः ॥ " इत्यादिभिः । तान् । हरिष्यमाणाम् आहरिष्यमाणाम्
परिग्रहीष्यमाणां सतीमिति यावत् । हरतेः कर्मणि ऌटश्शानच् ।
 

 
.
 
6
 
11
 
"
 
18 11