This page has not been fully proofread.

मधुराविजये
 
" अथ
 
दिव्यानि, भौमानीति निमित्तानि द्विविधानि । तत्र
प्रशस्ते दिवस ' इत्यादिना दिव्यानि वर्णितानीति भौमानि वर्ण
यति ' महौज़स' इत्यारभ्य प्रस्तावित इत्यन्तेन श्लोकसमूहेन
 
102
 
॥ 15 11
 
7
 
महौजस इति ॥ तदा तस्मिन् काले शिशोर्जननसमय इत्यर्थः ।
दिशः ककुभः । स्त्रिय इति च गम्यते । ' दिशस्तु ककुभः काष्ठा
आशाश्च हरितश्च ताः इत्यमरः । तासाम् मुखानीव मुखानि मुख
सदृशाः श्रेष्ठाः वैशाल्यादिगुणसंपत्त्या प्रशस्ताः प्रदेशा इत्यर्थः ।
आननानीति च व्यज्यते । ' मुखमुपाये प्रारम्भे श्रेष्ठे निस्सरणा
स्ययोः' इत्युभयत्रापि हैमः । वेलाम् मर्यादाम् उत्क्रान्ता अति

क्रान्ताः उद्वेलाः । प्रादिसमासः । उत्कटा इत्यर्थ: । दुग्धोदधेः क्षीर
समुद्रस्य 'दुग्धं क्षीरं पयस्समम् इत्यमरः । पूरः प्रवाहः
जलप्रवाहे स्याद् व्रणसंशुद्धिखाद्ययोः' इति मेदिनी । तद्वत् गौरैः
'पूरो
सितैः शुभैः अतिधवलैरिति यावत् । 'गौरोऽरुणे सिते पीते '
इत्यमरः । यशसां धावल्यं च कविसमयसिद्धम् । महत् निरुपमम
ओजः दीप्तिः वर्चः यस्य । 'ओजो दीप्तौ बले '
 

 
महौजसस्तस्य निज़ैर्यशोभि
रुद्वेलदुग्धोदधिपूरगौरैः ।
प्रक्षालितानीव तदा बभूवु
 
घृतप्रसादानि दिशां मुखानि ॥
 
"6
 
' शेषाद्विभाषा' इति वैकल्पिकत्वान्न कप् । वर्चस्विन इत्यर्थः । अनेन
इत्यमरः ।
कारणजन्मायमिति जनैर्मुहुर्मुहुश्श्लाघ्यमानत्वं सूचितं भवति । तस्य
शिशोः । निजैः स्वकैः पूर्वोक्तविधया स्वार्जितैरित्यर्थः । ' स्वके नित्ये
निजं त्रि' वित्यमरः
वित्यमरः । यशोभिः प्रतापादिप्रभवैः स्तवैः ।
 
दानादिप्रभवा कीर्तिः प्रतापप्रभवं यशः " इत्यभियुक्ताः । अमरस्तु
 
यशः कीर्तिस्समज्ञाः चेत्युभयं समानार्थकमेवाह । जलैरिति
 
66
 
"
 
"