This page has not been fully proofread.

25]
 
द्वितीयसर्गः
 
,
 
मुदाजहारामरकारः। मुहूर्तम् तत्प्रतिपादकम् शास्त्रम् विदन्तीति मौहू
तिकाः ज्यौतिषिकाः - 'तदधीते तद्वेद' इति ठगित्याह मल्लिनाथः ।
" शशंस मौहूर्तिकसंसदंशकम् " इति श्रीहर्षनैषधीय पद्यव्याख्यानावसरे
अत्रैव मुहूर्तं वेदेत्यर्थे 'ऋतूक्या' दीत्युक्थादित्वात् ठगिति व्याख्यौ
नारायणपण्डितः । तैः साधितम् सम्पादितम् परीक्ष्य परीक्ष्य
निर्णीतम् । पुण्यम् पावनम् शुभग्रहवीक्षणोच्चत्वादिगुणसाहित्येन ग्रह
विशेषाणामुदयास्तमय निबन्धनादिदोषराहित्येन च शुद्धमित्यर्थः । पुण
कर्मणि शुभे इत्यस्मात् 'इगुपधेति ' के 'तदर्ह' तीत्यर्थे यः । 'पुण्यन्तु
सुन्दरे सुकृते पावने धर्मे ' इति सुधा । तादृशम् लग्नम्, मेषवृषादि
राश्युदयरूपम् ' राशीनामुदयो लग्नम् ' इत्यमरः । तस्मिन् । इन्दुः
चन्द्रः मौलिः मकुटम् शिरोलङ्कारः । 'किरीटे मौलिरक्लीबे चूडा
संयतकेशयोः' इति रभसः । सः यस्य स तथोक्तः । चन्द्रशेखरश्शङ्कर
इत्यर्थः ।
'शङ्करश्चन्द्रशेखरः' इत्यमरः । तस्य देवी कृताभिषेका
पट्टमहिषी पार्वतीति यावत् । देवट् इति पचादौ पाठादच् । 'टिट्ठा
णञ्' इत्यादिना ङीप् । शिवयोः पट्टाभिषेकश्च वर्णितो ललितोपा
ख्याने - '"अथाभिषेकमातेनुस्साम्राज्ये
सा महती जेतुमशक्या विस्तृता वा ।
सैन्यम् यस्य तम् । षडाननम् कुमारमिव । कार्तिकेयो महासेन
 

 
,
 
शिवं शिवाम्" इत्यादिना । वां ?
। सेना सैन्यम् देवानाम्
 
आत्मजस्तनयस्सूनु
 
श्शरजन्मा षडाननः इत्यमरः । सूनुम् सुत
स्सुतः पुत्रः' इत्यमरः । असूत सुषुवे अजनयदित्यर्थः । कुमारो
यथा देवानां सेनानीर्भूत्वा तारकमवधीत्, अरक्षदपि च लोकान्
तदुद्वेजितान् देवैस्सह, तथायमपि महतीं सेनामाकर्षन्नरीनुपसृत्य तुरु
कादिवर्धन देशक्षेमं विधास्यतीत्येतदुपमार्थो वेदितव्यः । साधण्य
लग्ने मौहूतिकैः इत्यादिना शिशोरनितरसाधारणी ग्रहसंपत्तिः, तया
 
सूचिता । एतादृशप्रस्तावे
सूचिता ।
 
दीर्घायुरारोग्यैश्वर्यादिसर्वगुणसमृद्धिश्च
" कुमारक़ल्पं सुषुवे कुमारम्, "इत्याह कालिदासः । धर्मलुप्तेयमुपमा॥
 

 
6
 
6
 
101