मधुराविजयम् /233
This page has not been fully proofread.
मधुराविजये
स्फोटः स्त्रियां शुक्तिः' इत्यमरः । ' राजौ लिपौ च लेखा स्त्री
पुंस्ययं लेख्यदेवयोः' इति नानार्यरत्नमाला । अभ्यनन्दत् अङ्गीचकार
अमन्यतेत्यर्थः । अभीत्युपसर्गबलात् टुनदि समृद्धावित्यस्याङ्गीकारा
र्थकत्वं दृष्टम् । तथा च कालिदासः
ज्येष्ठाभिगमनात्पूर्वं तेनाप्य
नभिनन्दिता । साभूद्रामाश्रया भूयो नदीवोभयकुलभा ॥ " इति । अत्र
" अनभिनन्दिता नाङ्गीकृता " इति मल्लिनाथः । एतादृश एव प्रक
रणे कविकुलतिलकोऽप्येवं प्राकथयत् – 'निवानगर्भामिव सागराम्ब रां
शमीमिवाभ्यन्तरलीनपात्रकां । नदीमिवान्तस्सलिलां सरस्वतीं नृप
स्ससत्त्वां महिषीममन्यत ।" इति । यद्वा अभ्यनन्दत् एवं मत्वा प्रशशंसे
त्यर्थः । क्रियान्तरोपसर्जनस्वार्थाभिधायकत्वं धातूनां कुसूलान्पचतीत्यादौ
दृष्टमिति तद्वदेवेदमित्यपि सुवचम् । आदानक्रियापेक्षयैव कर्मत्वमभिहितं
कुसूलानित्यादीनामभियुक्तैः । उक्तोपमात्रयेण गर्भस्य दानवीरत्वं प्रजाह्ला
दकत्वं तेजस्वित्वमिति त्रयो गुणा विवक्षिताः । अस्मिन् श्लोके यथामार्गमुप
ऋप्रोऽभवदिति समता नाम गुणः । "मार्गभेदस्समता" इति लक्षणात् ।
मालोपमाचालङ्कारः । " एकस्यैवोपमेयस्य यद्यनेकोपमानता । तदा मालो
पमामेतामाहुः केचिद्विचक्षणाः ॥ " इत्येतस्या लक्षणमाह दण्डी ॥
"
98
गर्भसंस्कारान् वर्णयति
-
-
ततः परं तापहरः प्रजानां
पुरोहितोक्तचा पुरुहूतकल्पः।
व्यधत्त काले विभवानुरूपं
पुंसां वरः पुंसवनक्रियां सः ॥
11 13 ()
तत इति ॥ ततः गर्भस्य किञ्चित्किञ्चित्प्रकाशः पूर्वमभिहितः ।
तस्मात्प्रकाशात् गर्भाभिव्यक्तरित्यर्थः । परः उत्तरकाल: यस्मिन्कर्मणि
तथा 'परश्श्रेष्ठादिङ्वरान्योत्तरे कुलीबन्तु केवले' इति मेदिनी । गर्भ