This page has not been fully proofread.

द्वितीय सर्गः
 
राजि श्रेणि: कुक्षिस्था रोमपङ्क्तिः 'तनूरुहं रोम लोम' इत्यमरः ।
'राजी रेखायां पङ्क्तौ च ' इति हैमः । राजू दीप्ता वित्यस्मादौणा
दिक़ इन् । 'कृदिकारादक्तिन ' इति ङीषो विकल्पः । अतएव द्विरूपको
शकार अह' राजी राजिव कथ्यते' इति । मदरेखा गन्धगजस्येव
तस्या रोमपङ्क्तिः सौभाग्यस्य दीप्त्यतिशयमजनयदियमित्येवमुक्तिः । सा
कर्ती । गर्भतले अधराया भूमेर्मध्यभागे । गुणगुणिनोरभेदविवक्षायां
प्रवृत्तिनिमित्तभेदेन विशेषणविशेष्ययोरग्रहस्तादिवत्कर्मधारयः । यथाह
वामन: - " हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदात् " इति । अन्यत्र
तलस्स्वरूपार्थकः । कुक्षावित्यर्थ: । 'तलं स्वरूपाधरयोरस्त्री' इत्युभय
त्रापि नानार्थरत्नमाला । निषण्णम् उपविष्टम् स्थितमित्यर्थः । निपू
र्वकात् सदे: गमननिरोधकार्थात् कर्तरि क्तः । तेजोनिधिम् कान्ति
मन्निधानम् । भूमि खनित्वा तदन्तरा निक्षिप्तं रत्नादिस्वमित्यर्थः ।
अन्यत्र तेजसः निधिमिव पराक्रमस्य कान्त्यतिशयस्य वा आश्रयभूतं
गर्भमित्यर्थ: । रक्षितुं वातुम् परापहरणभयात् अन्यत्र दृष्टिदोष
भयाच्च । आगता उपस्थिता । अन्यत्र निस्सृता । कालोरगी कृष्णभु
जङ्गी । लोके निधिनिक्षेपावाक्रम्य सर्पा रक्षन्तीति प्रसिद्धिः । रराज
रेजे अशोभत । गर्भोपरि प्रकाशमाना देव्या रोमराजि तस्यास्सौ
न्दर्यमतीव वर्धयन्ती महान्तं निधिमावृत्य स्थिता कृष्णसर्पिणीव स्थिते
त्युत्प्रेक्ष्यते । रोमराज्यां सौन्दर्याधिक्यवर्णनेन शब्दकृतसाम्यसमाकलनेन
च कृतार्थी रूपकश्लेषावुत्प्रेक्षाया अस्याः उपकुरुत इत्यङ्गभावमनु
भवतः । इवेति सम्भावनायाम् ॥
 
लक्षणान्तराणि वर्णयति -
 
श्यामायमानच्छविना मुखेन
स्तनद्वयं तामरसेक्षणायाः ।
 
"
 
95