This page has not been fully proofread.

मधुराविजये
 
इत्याह
 
लक्ष्ये दयनीयतेयमतितुच्छत्वं तस्मिन् दर्शयन्नतिसुलभभेद्यत्वं तस्य
गमयति । इति इत्थम् एवमुक्त्वेत्यर्थः । इतिशब्दः पूर्वोक्तानामनुकर्षणं
वक्ति । ' इति प्रकरणे हेतौ प्रकाशादिसमाप्तिपु । निदर्शने प्रकारे
स्यादनुकर्षे च सम्मतम् ' इति विश्वः । पुराणाम् अरिम् शत्रुम्
अन्तकम् त्रिपुरान्तकमीशानमित्यर्थः । पुरशब्दोऽकारान्तोऽप्यस्ति " क्षेमे
सुभिक्षे कृतसञ्चायानि पुराणि राज्ञां विनयन्ति कोपम "
महाभाष्यकृत् । अहसत् पर्यहासीत् । हसे इत्यस्माल्लङ् । हसिरयं
हासजन्यपरिहास लक्षयति । कार्यकारणयोरभेदोपचारात् । अतएव
हसेर कर्मकस्यापि सकर्मकतेत्यवधेयम् । साधनसम्पत्तिरित्थमनन्या -
दृश्यपि पर्वतं खात्वा बालमूषिकामेकां लब्धवतः पुंस इव, गिरि
शस्यापि संरम्भो महान् फललाभाय भूयसे नाभवदिति तस्या
स्तस्मिन्ननादरो जात इति भावः । पुरा राक्षसास्त्रयो महा
देवं तपसा समाराध्य स्वर्णरजतलोहनिमितानि दुर्भेदानि काम
गमनानि त्रीणि पुराणि महामहिमसंपन्नानि ततो लब्ध्वा लोकां
स्त्रीनुद्वेजयामासुः । शरणागतान् देवान् लोकांश्च पालयितुकामो भग
वान् पार्वतीजानि रात्मनो ब्रह्माणं सारथिं, रथं च वसुन्धरां,
धनुश्च मेरं, मौर्वी चापि सहस्रशिरसं विधाय स्वयं
तानवधीत्रिपुरदहनेन साकमित्येषा स्कान्दी कथात्रानुसंधेया । अन्यै
च रथीभूय
र्दुरासदस्य त्रिपुरविजयस्य तदेकसाध्यस्य तुच्छत्व समर्थनाय साधनसम्पत्ते
रौत्कृष्टयमुपवर्ण्य वस्तुतस्तदहे तोर्हेतुत्वकल्पनमत्रेति प्रौढोक्तिरलङ्कारः ।
स च परमेश्वरवीर्यातिशयादप्यतिरिच्यते कम्पराजस्य पराक्रमातिशय
इति वर्णनरूपाया अत्युक्तेरुज्जीविकेति तयोरङ्गाङ्गिभावेन सङ्करः ।
तयोर्लक्षणं त्वेवमुक्तम् - "प्रौढोक्तिरुक्तार्थाहेतोस्तद्धेतुत्वप्रकल्पनम् अत्युक्ति
रद्भुतातथ्यशौर्यो दार्यादिवर्णनम् " इति । जगन्नियन्तुस्सर्वसंहारकस्य
भगवतो लोकवदियं साधनापेक्षा तस्य सङ्कल्पमात्रसाध्येऽस्मिन्नर्थे लोक
विडम्बनार्थो महान् संरम्भश्च तस्याः हासहेतुरिति च व्यज्यतेऽवेति
 
.
 
92
 
S