This page has not been fully proofread.

द्वितीय सर्गः
 
}}
 
प्रथत इति पृथिवी । प्रथेरौणादिकः षिवुन् 'षिद्गौरादिभ्य ' श्वेति
ङीषित्याह । तादृशः रथ: स्यन्दनः स्वस्य अधिष्ठानमित्यर्थः । शता
ङ्गस्स्यन्दनो रथ इत्यमरः । अब्जात् सूतिः प्रसवः जन्म यस्य सः
तथोक्तः । षूङ् – प्राणिप्रसवे भावे क्तिन् । नाभिकमलादुत्पन्नो विष्णो
रौरसस्तो ब्रह्मेत्यर्थ: । अनेन तस्य रथिनमपि रक्षितुं सामर्थ्यं
शत्रुभिरवध्यत्वं च व्यज्यते । तादृशः सारथिः यन्ता रथचोदकः ।
यन्ता सूतः क्षत्ता च सारथिः इत्यमरः । शेषेण तदाख्येन सर्प
राजेन अनन्तेन ' शेषोऽनन्ते तथा सीरिण्युपयुक्तेतरेऽपि च ' इति
हैमः । शिष्यते कल्पान्ते सर्वेषां विलयेऽपि स्वयमिति शेषतेर्घञ् ।
 
"
 
(
 
एतेन, प्रयत्नेन महतापि छेत्तुम शक्यत्वं तस्मिन् द्योत्यते । तद्रूपेण
ज्यया मौर्व्या सह वर्तत इति तथोक्तम् तेन सहे ' ति बहुव्रीहिः ।
'वोपसर्ज़न ' स्येति सहस्य सभावः ।
अद्रीणां राजा अद्रिराजः ।
महागिरिस्सुरालयो मेरु'
 
रित्यर्थः ।
 
गमकत्वात्समासः । धनु
( ' राजाहस्सखिभ्य' इति
 
टच् । )
 
'मेरुस्सुमेरुहेमाद्री रत्नसानु
 
स्सुरालयः
 
इत्ययं केनाप्युपायेन तस्य
 
6
 
इत्यमरः । अद्रिराज
दुर्भेदत्वं गमयति । तादृशः धनुः शरासनम्, धनु: पियाले ना
न स्त्री राशिभेदे शरासने ' इति मेदिनी । शौरि:- शूरस्य तदाख्यस्य
यदुवंश्यस्य अपत्यम् । बाह्लादित्वादिञ् । शुरशब्दस्तस्मिन्न केवलं नाम्ना
चरितार्थ इति तदपत्यस्यास्य शूराग्रगत्वं ज्ञायते । तेन शत्रुहनने
स्वयमेव स समर्थ इति सूच्यते । तादृक् शरः बाणः शत्रुहननसाध
नम् । किलेति वार्तायाम् । 'वार्तासंभाव्ययो: किल' इत्यमरः । एवं सम
भूत् तथापीत्यर्थ: । लक्ष्यं शरव्यं भेद्यं वस्त्वित्यर्थः । ' लक्षं लक्ष्यं शरव्यं
च' इत्यमरः । पुराम नगरीणाम 'पू स्त्री पुरीनगर्यो' वा ' इत्यमरः । त्रयम्
त्रितयम् धातुमयानि त्रीणि पुराणीत्यर्थः । चो विनिश्चये । नत्र
संशय इत्यर्थः । ' चः पादपूरणे पक्षान्तरे हेतौ विनिश्चये' इति त्रिका
ण्डशेषः । हन्तेत्यनुकम्पायाम् । 'हन्त हर्षेऽनुकम्पाया ' मित्यमरः ।
 

 
(
 
"
 
91