This page has not been fully proofread.

द्वितीय सर्ग:
 

 
अनादृत्य अविगणय्य परित्यज्येत्यर्थः । निजम् स्वीयम् यत् सैन्यम्
सेना । स्वार्थे व्यञ् । तस्य ये नांगाः गज़ाः । अवयवावयविभावे षष्ठी ।
तैः तरङ्गिते संजातकल्लोलवति । तारकादित्वादितच् । मदगजकृत
संक्षोभेण मुहुर्मुहुरुद्भ तवीचीपरम्परा भिरतीव भयावहे इत्यर्थः ।
ताम्रपर्ण्या : एतन्नाम्नी मुक्तानांमाकरभूता काचिन्नदी तस्याः वारिणि
जले । विहर्तुम् क्रीडितुम् जलक्रीडामनुभवितुमित्यर्थः । ऐच्छत् इयेष ।
इषधातो: लङि शपि इषुगमियमामिति छ । आडागमः । आटश्चेति
वृद्धिः । गजैरत्यन्तं भयावहापि ताम्रपर्णी वीरप्रसवसंगत्या तस्याः
प्रीतिमेव जनयामासेति धीरतातिशयस्तस्यां कीर्त्यते ॥
 
4
 
87
 
तस्यास्साहसरसिकतां प्रकथयति -
 
अपारयन्ती चरितैणशाब
 
क्रीडाचलोपान्तमपि प्रयातुम् ।
आखेट रागादधिरोढुमैच्छ
न्माद्यन्मृगेन्द्रान् मलयाद्रिकूटान् ॥
 
॥ 6 ॥
 
अपारयन्तीति ॥ चरिताः चरन्तः । (गत्यर्थंकाच्चरते: ' गत्यर्थ
काकर्मके' ति कर्तरि क्तः 1) एणशाबा: हरिणशिशवः यमिस्तम् ।
एणोनाम पृथुनेत्र: कृष्णवर्णो मृगभेद गोकर्णपृषतैणयंरोहिता
चमरो मृगाः' इति मृगभेदोक्तावमरः । 'पृथुकरशाब करिशशु: ' इत्यपि
स एव । क्रीडाया: अचल: क्रीडाचल: । क्रीडापर्वतः दिवाविहार
प्रदेशः 'सरितः पुलिनं वेला कान्तारारामभूधराः । लतागृहाणि
चित्राणि शय्या किसलयाञ्चिता दिवा विहारदेशास्युः
प्रकाशः । तस्य उपान्तम् समीपप्रदेशः । विभक्त्यर्थेऽव्ययीभावः ।
तत् तदुद्दिश्येत्यर्थः । प्रयातुम प्रस्थातुम गन्तुमिति यावत् । अपारयन्ती
अशक्नुवानापि गर्भभारादिति भावः । तदशक्ततामविगणय्येत्यपिशब्दार्थः ।
 
"
 
इति भाव
 
"