This page has not been fully proofread.

मधुराविजये
 

 
त्साधुः । द्वे हृदये यस्याः इति व्युत्पत्त्या द्विहृदया गर्भिणी । तदानीं
शिशोर्हृदयेन साकं संबद्धं मातुर्हृदयमिति तथोक्तिः । तथाचोक्तं
 
86€
 
बाहटेन मातृजन्यस्य हृदयं मातुश्च हृदयेन तु । संबद्धं तेन
 
गर्भिण्या नेष्टं श्रद्धावमाननम् ॥" इति ।
 
संग्रहे चैतदुक्तम्, "द्विह
 
दयां नारीं दौहृदिनीमाचक्षत " इति ।
 
उत्पत्स्यमानम् जनिष्य
 
माणम् आसन्नोदयकालमित्यर्थः । उत्पूर्वात् पद्यतेऌटश्शानच् । नृपस्य
 

 
राज्ञः तनयम् सुतम् राजकुमारमित्यर्थः । अन्येषां साधारणम्
अन्यसाधारणम् इतरैस्तुल्यम
 
"
 
वाच्यलिङ्गास्समस्तुल्यस्सदृक्षस्सदृश
स्सदृक् । साधारणस्समानश्च ' इत्यमरः । तन्नभवतीति तथोक्तम् निरु
पमानमित्यर्थः । तादृशम् भुजयो अपदानम, पराक्रमः • अपदानं
पराक्रमे ' इति केशवः । तत् यस्मिन तत्तथोक्तम् । तादृशं यथा
भवति तथा । न्यवेदयत् व्यजिज्ञपत् अबुबोधयत् प्राकाशयदिति
यावत् । अबलायां तस्यामभिव्यक्तान् दोहदान् धैर्यारम्भौदार्याद्युत्साह
सामग्रीसमग्रान् श्रुत्वा गर्भस्थ शिशुरयं वीरवतामग्रेसर इति कथनं
विनापि लोकोऽयमजानादिति भावः ॥
 

 
-
 
"(
 
कानि तानीत्याकाङ्क्षायां वीरस्य स्थायिनमुत्साहंं दोहदै:
प्रशंसन्ती प्रथमतस्तद्धेतुभूतां तां धीरतां वर्णयति -
 
सा तुङ्गभद्रां सविधे वहन्तीं
सुभ्रूरनादृत्य सुखावगाहाम् ।
विहर्तुमैच्छन्निज सैन्य नाग
स्तरङ्गिते वारिणि ताम्रपर्ण्याः ॥
 
॥ 5 ॥
 
सा तुति ॥ शोभने भ्रुवौ यम्यास्सा सुभ्रूः
 
देवायी ।
 
सुखयन्तीति सुखाः सुखकरा: अवगाहा: अवताराः यस्याः ताम् । सविधे
 
स्वस्थाः समीपे वहन्तीम् प्रवहन्तीम् । तुङ्गभद्राम् तन्नाम्नी नदीम"
 
.
 
1