This page has not been fully proofread.

द्वितीय सर्गः
 
मरः । तेन मुखेन उपलक्षितेत्यर्थः । ' लक्षणेत्थंभूताख्याने ' ति तृतीया ।
 
तथासती, दिनस्य
 
इत्यमरः । तस्मिन्,
 
.6
 
अन्ते चरमे भागे साय इत्यर्थः । ' दिनान्ते तु साय: '
अस्तमिते सूर्ये इति यावत् । तदानीमेव चन्द्र
मसः प्रतिबिम्बस्य प्रतिफलनसम्भवात् । विलूनांनि छिन्नानि अपचि
तानि राजीवानाम् पद्मानाम् वनानि समूहाः यस्यां सा तथोक्ता ।
सा परित्यक्तसकलसरोरुहा सतीत्यर्थः । छाया चासौ शशाङ्कश्च
छायाशशाङ्कः प्रतिबिम्बितश्चन्द्रः । तेन उपलक्षिता । उपलक्षणे तृतीया ।
छाया कान्तिस्सूर्य जाया प्रतिबिम्बमनातपः' इति नानार्थरत्नमाला ।
शरदि या नदी शरत्कालप्रवाहः सेव । वर्षाप्राप्तप्रवाहोल्बणस्य शर
द्यपगमेन नदीप्रवाहानामल्पत्वं लक्ष्यत इति तथोक्तम् । रेजे बभौ ।
गर्भधारणेन कार्यमनुभवन्ती भूषाभारमसहमाना सा भूषणानि विहाय
मुखपाण्डिम्ना प्रकाशन्ती प्रतिबिम्बितचन्द्रेण कृशा शरन्नदीव स्थिते
त्युत्प्रेक्ष्यते । अत्र यद्यपि राजीववनेति वनशब्देन भूषणकार्त्त्यस्य
परित्याग उच्यते तथापि माङ्गल्यहेतूनां तु तेषामपरिहार एव
विवक्षितः कवयित्र्या । वनशब्दस्तु बहुलत्वमभिदधत् भूषणानां बाहु
ल्यमेव द्योतयति नतु सर्वात्मना तदभावम् । अतएव कविकुल
तिलकः कालिदासः एवमाह - " शरीरसादादसमग्रभूषणा मुखेन साड
लक्ष्यत लोध्रपाण्डुना। तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशि
नेव शर्वरी ॥ " इति । भोजस्तु चम्पूरामायणे " अपाटवात्केवलमङ्ग
मनोज्ञकान्तेर्महिषीजनस्य । शनैश्शनै: प्रोज्झितभूषणानि
कानाम
चकाशिरे दौहृदलक्षणानि ॥ ' इति कौसल्यामवर्णयत् । गर्भलक्षणेषु
कायमुक्तं बाहटेन " क्षामता गरिमा कुक्षे: मूर्छा छदिररोचनम् ।
जृम्भ: प्रसेक़: स्खलनं रोमराज्या प्रकाशनम् ॥
विलूनराजीववनायाश्शरन्नद्याः अप्रसिद्धत्वादुत्प्रेक्षेयम् । इवशब्दस्सम्भाव
नायाम् । दण्डिमते तु स्वरूपोत्प्रेक्षाया अनुत्थानादभूतोपमेयमित्युच्यते ।
एतादृशेष्वतिशयोक्तिरिति " पुष्पं प्रवालोपहितं यदि स्या" दित्यायुदा
 
"
 
इति ।
 
अत्र
 
83