This page has not been fully proofread.

मधुराविजये
 
पूर्णोपमेयम् । उपमानं तु पुराणप्रसिद्धम् । भगवत्साम्यं बुक्कराजस्य
निग्रहानुग्रहसमर्थतामद्भिस्साम्यं देव्याः परमपवित्रताम् तेजस्साम्यं
शिशोर्महामहिमत्वं द्योतयन्ति । अथशब्दस्सर्गादौ प्रयुक्तो माङ्गल्यमभि
दधत् सर्गारम्भमाचष्ट । अस्मिन् स प्रायेण वृत्तमुपजातिः । क्वचि
दुपेन्द्रवज्रेन्द्रवज्रे च । तल्लक्षणं तु- 'स्यादिन्द्रवज्रा यदि तौ
जगौ गः । '' उपेन्द्रवज्रा जतजास्ततो गौ ।
 
"
 
'अनन्तरोदीरितलक्ष्म
 
भाजौ पादौ यदीयाबुपजातयस्ताः' इति । सर्गोऽयं देवाय्याः गर्भ
धारणेन समारब्धः परिसमाप्यते स्वसुताभिवर्धनेन साकं महा
रजाभिवृद्धिप्रकथनेन ॥
 
गर्भधारणं प्रस्तुत्य गर्भवत्यां तस्यां गर्भलक्षणानि वर्णयति
 
मुखेन तन्त्री शरपाण्डरेण
विमुक्तरत्नाभरणा विरेजे ।
विलूनराजीववना दिनान्ते
छायाशशाङ्कन शरत्नदीव ॥
 
82
 
-
 
11 2 11
 
मुखेनेति ॥ तन्वी कृशाङ्गी देवायी 'लक्ष्णं दभ्रं कृशं तनु । '
इत्यमरः । 'वोतो गुणवचनात्' इति ङीष् । अङ्गानां कृशत्वमपि
दौहृदलक्षणम् । यतः कृशाङ्गी अतएव । रत्नानाम् आभरणानि
भूषणानि मणिमयभूषा इत्यर्थ: । प्रकृतिविकृतिभावे षष्ठी । विमुक्तानि
परित्यक्तानि (अङ्गानामपाटवेन स्वस्थानस्थितेरसंभवाच्चेति भावः । )
रत्नाभरणानि वलयादीनि, माङ्गल्यहेतून्
( तत्परित्यागे दोषश्रवणात् ) यया सा तथोक्ता । तादृशी सती, शरः
ताटङ्कादीन्विनान्यानि,
तृणविशेष: 'शरो दध्याद्यग्रसारे बाणे काण्डे तृणान्तरे ' इति नानार्थ
रत्नमाला । स इव पाण्डरम् धवलम् । पण्ड्यते मनः अस्मिन्नित्यधि
करणे बाहुलकादरः दीर्घश्व । 'शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः' इत्य