This page has not been fully proofread.

5
 
श्रीः
 
मधुराविजयम्
 
भावप्रकाशिकाख्यव्याख्यासमेतम्
द्वितीय सर्गः
 
अस्मिन् सर्गे नायकजननं वर्णयितुकामा तदङ्गत्वेन देव्या:
गर्भधारणमादौ प्रशंसति
 
अथास्य वंशप्रतिरोहबीजं
महीभुजो गर्भमधत्त देवी ।
 
जगत्त्रयो इतिनिदानभूतं
तेजो विधातुः प्रथमेव सृष्टिः ॥
 
1
 
,
 
अथेति ॥ अथ अनन्तरम् राजदम्पत्योस्सुखानुभूतेरुत्तरकाल
इत्यर्थः । अस्य सन्निकृष्टस्य पूर्व वर्णितस्य 'इदमस्तु सन्निकृष्टे' इति वच
नात् । महीं भुनक्ति रक्षतीति महीभुक् राजा । 'क्विप्चे' ति क्विप् । तस्य
बुक्कराजस्य देवी कृताभिषेका राज्ञी देवायी। भूमिरिति गम्यते । 'देवी
कृताभिषेकायाम् ' इत्यमरः । नाटयोक्तावित्येतस्मिन्नधिकारे पठितस्यापि
देवीशब्दस्य प्रयोगोऽत्र न विरुध्यते । तत्र पठितासु कासुचिन्नियमस्य
कासुचिद्विधेश्च प्रामाणिकैरभ्युपगमात् । एतदेवाचष्ट शब्दार्णवकार:
" अथैषां रूपकाराणामुक्तीर्वक्ष्याम्यशेषतः । कासुचिन्नियमस्तत्र विधिरेव
च कासुचित् " अम्बादीनां नाटचे प्रायशः प्रयोगाद्विधिः । अज्जुका
दीनां त्वन्यत्राप्रयोगान्नियमः इत्यमरसुधाटीकापि । अतएव महाकव
 
"
 
रामायणादिषु श्रव्यकाव्येषु मात्रादींश्च
 
'वंशोऽन्ववायस्संतानः' इत्यमरः । वृक्ष
 
योऽपि प्रायुञ्जतार्यपुत्रादीन्
रूपकेषु । वंशः राजसंतानः