This page has not been fully proofread.

19)
 
प्रथमसर्गः
 

 
नतु शेषषष्ठ्याः । तेन समासः । यद्वा तेनेत्यधिकारे 'उपज्ञाते '
इति निर्देशात् भूते क्तः । तेन तृतीयासमासो वा । तया देवाय्या
साक़म । कालस्य कालविशेषस्य तत्तदृतूनामित्यर्थः । उचितानि अर्हाणि
तथोक्तानि । तादृशानि सुखानि सौख्यानि क्रमश: क्रमेण । 'संख्यैक
वचनाच्च वीप्सायामम्' इति शस् । अनुभवन, आस्वदन् वसन्तादि
ऋतूनामानुगुण्येन यथोचितं स्वपत्न्या देवाय्या सह विहरन्नित्यर्थः ।
चिराय बहुकालम् विजया इति पुः विजयापुरम् । 'ऋक्पूरब्धू
पथामानक्षे ' इति समासान्तोऽच् । यद्वा पुरशब्दोऽकारान्तोऽप्यस्ति
" क्षेमे सुभिक्षे कृतसंचयानि पुराणि राज्ञां विनयन्ति कोपम " इति
महाभाष्यकृत् । तेन साकं समास इति वा । अध्यवात्सीत् अध्यति
ष्ठत् तस्मिन् न्यवसदित्यर्थः । ' उपान्वध्याङ्वसः इत्याधारस्य कर्म
त्वम् । नगर्यां तस्यामात्मपत्न्या तया सह भोगान् भुञ्जानस्य महा
 

 
राजस्य तस्य कालो महानयासीदिति परमार्थ: । वृत्तं तु वसन्त
तिलका । उक्ता वसन्ततिलका तभजा ज़गौ गः' इति तल्लक्षणात् ।
 
"
 
सर्गान्तं सूचयति वृत्तभेदः । यथाह दण्डी – ' सर्गैरनति विस्तीर्णैश्रव्य
वृत्तैस्सुसन्धिभिः । सर्वत्र भिन्नसर्गान्तैरुपेतं लोकरञ्जकम् ' इति ॥
 
इति
 
श्री गङ्गादेव्या विरचिते
मधुराविजयनाम्नि वीरकम्परायचरिते
 
प्रथमसर्गः
 
}
 
6
 
इतीति ॥ श्रीगङ्गादेव्या श्री इति स्ववृद्धयाशंसनम्, 'गङ्गा
 
इति कवयित्र्या नाम । वक्ष्यति च पुरस्तादियमेव भुवि गङ्गत्य
 
77
 
(