This page has not been fully proofread.

मधुराविजये
 
ण्णपा' न्नित्यादिना सावुः । रोहिणीम् एतन्नाम्नी तारकामिव ।
तामेव देवायीमेव नतु तत्सदृशीमप्यन्यां कामपि तामिवेत्यर्थः ।
बहु अधिकं यथा तथा अमंस्त अमन्यत आदृत अत्यादरं तस्यां
सोऽकरोदित्यर्थः । रोहिणी चन्द्रस्येव देवायीयं बहुवल्लभस्यापि तस्य
नितरां स्वगुणरूपसंपदादिभिः परां प्रीति जनयामासेति निर्गलि
तोऽर्थः । रोहिण्यामतिप्रीतिश्च चन्द्रस्य पुराणेषु प्रसिद्धा । अतएव 'दक्ष
शाप इव चन्द्रमक्षिणोत् इत्यस्य व्याख्यावसरे मल्लिनाथ एव
माह रघुवंशे - " दक्षः किलान्यास्स्वकन्या उपेक्ष्य रोहिण्यामेव रम
माणं राजानं सोमं शशाप । स शापवाद्यापि क्षयरूपेण तं क्षिणो
तीत्युपाख्यायते ॥ मन ज्ञाने देवादिकाल्लङ् । उपमालङ्कारः । स च
नक्षत्राणामन्यदाराणां च साम्यं द्योतयतीत्येकदेशवर्ती ॥
 
"}
 
76
 
,
 
नायकस्य कम्परराजस्य जननमग्रे वर्णयितुकामा राजदम्प
स्सौख्यानुभूतिमद्य कथयन्ती सर्गमिमं मङ्गलान्ततया समापयति -
 
-
 
क़र्णाटलोक़नयनोत्सव पूर्णचन्द्र
 
स्साकं तया हृदयसम्मतया नरेन्द्रः ।
कालोचितान्यनुभवन् क्रमशस्सुखानि
वीरश्चिराय विजयापुरमध्यवात्सीत् ॥
 
॥75॥
 
कर्णाटेति ॥ कर्णाट इति देशनाम ।
कर्णाटीयाः प्रज़ा इत्यर्थः । तस्य नयनानाम् नेत्राणाम् चकोराणा
तस्य लोकः जनः
मिति गम्यते । उत्सवः आनन्द:
 
मित्यर्थः । उत्सूते हर्षमिति सूतेस्सुवतेर्वा पचाद्यच् । तत्र पूर्णचन्द्र
तज्जनको व्यापारः आह्लादन
पूर्णः षोडशक़लाभिः परिपूर्ण: चन्द्र इन्दु पूर्णिमाचन्द्र इत्यर्थः ।
तस्यामेव तिथौ सर्वकलापरिपूर्णत्वस्य तस्मिन् संभवादेवमुक्तिः । किञ्च ।
वीरः पराक्रमवान् नरेन्द्र राजश्रेष्ठ । हृदयस्य सम्मता मनसो
बहुमता 'क्तेन च पूजायाम, इति षष्ठीनिषेधः कारकषष्ठ्या एव