मधुराविजयम् /210
This page has not been fully proofread.
6
प्रथमसर्गः
"
देवायोति ॥ तस्य वसुमत्याः धरण्याः पत्युः भर्तुः बुक्क
भूपतेरित्यर्थः । सर्वसहा वसुमती' इत्यमरः । वसुशब्दात् 'तदस्या
स्त्यस्मिन् ' इति मतुप् । 'उगितश्च ' इति ङीप् । देवायी नाम देवा
यीत्याख्यया लोके प्रसिद्धि गता । नामेति प्रसिद्धौ । देवान् अयते
नित्यं प्राप्नोति मनसा इति अयतेः कर्मण्यण् । ङीप् । देवी कृता
भिषेका पट्टमहिषी — देवी कृताभिषेकायाम् इत्यमरः । पद्म इव
ईक्षणे नयने यस्य तस्य पद्मक्षणस्य पुण्डरीकाक्षस्य विष्णो' । 'दैत्यारिः
पुण्डरीकाक्ष: ' इति
' इति चामरः । पद्मा
ईक्षणं नयनं नेत्र
लक्ष्मीरिव ' लक्ष्मीः पद्मालया पद्मा' इत्यमरः । किञ्च । शङ्करस्य
शिवस्य । शमिति मान्तमव्ययम् । शं करोति उत्पादयतीति 'शमि
धातोस्संज्ञायाम् ' इत्यच् । पार्वती हिमवतो दुहितेव ।' तस्येदम् '
इत्यण् । अण्णन्तत्वात् ङीप् । ते इव नित्यानपायिनी रूपसौशील्या
दिभिर्भर्तुर्बहमता जगदाराध्या च सतीति भावः । आसीत् अति
ष्ठत् । अस भुवि लङ् ॥
-
75
भर्तृप्रियत्वमस्यां यदुक्तं तत्प्रपञ्चायति ।
सत्स्वप्यन्येषु दारेषु तामेव मनुजाधिपः ।
बहुमंस्त निशानाथो नक्षत्रेष्विव रोहिणीम् ॥ ॥ 7411
सत्स्वपीति ॥ मनुजाधिपः नरेन्द्र बुक्कराजः अन्येषु दारेषु
देवाय्या: इतरासु भार्यासु ' दाराः पुंसि च भूम्न्येव' इत्यमरः ।
सत्स्वपि तिष्ठत्स्वपि आभिजात्यसौशील्यरूपादिभिरसदृशेष्वित्यर्थः ।
अपिशब्दोऽमुमेवार्थं गमयति । तासु मध्ये इति शेषः । निशानाधः
निशापतिः चन्द्रः ' ओषधीशो निशापतिः ' इत्यमरः । नक्षत्रेषु रोहिण्या
इतरासु अश्विन्यादितारकासु दारेण्विति गम्यते बहुवचनाद् बहुष्विति
च । सत्स्वपि तेषु मध्ये इत्यर्थः । न क्षरतीति नक्षत्रमिति नभ्रा