This page has not been fully proofread.

मधुराविज़ये
 
अहितानाम् शात्रवाणाम् प्राणाः येन तम् शत्रुप्राणापहारिणमित्यर्थः ।
स्वप्रतापख्यापनाय कृतदिग्विजयमिति भावः । अमुम् बुक्कराजम
प्राणंसिषुः प्रण्यपतन् । दासवत्सेवन्त इत्यर्थः । सर्वा भूमिरनेन निस्स
पत्ना कृता स्वायत्तीकरणेनेति निर्गलितोऽर्थः । प्रपूर्वकात् णमु प्रहृत्वे
इति धातोर्लुङ् । 'यमरमनमातां सक्च' इति सगिटौ । ' उपसर्गा
दसमासेऽपि ' इति णत्वम् ॥
 
74
 
कुलक्रमानुसंप्राप्त क्षोणीरक्षणजागरः ।
 
अभुङ्क्त विपुलान् भोगा ननासक्तमनाः प्रभुः ॥ ॥ 72॥
 

 
कुलऋमेति ॥ प्रभुः राजा कुलम् वंशः तास्थ्यात्तद्वयवहार
इति कुलशब्देन तस्था: राजानो लक्ष्यन्ते । तस्य क्रमः परिपाटी
तस्मात् अनुसंप्राप्तम् तदनुसरणेन लब्धम् पितृपितामहप्रपितामहादिभ्यः
स्वस्य संक्रान्तम् स्ववंशेऽनादिसिद्धमित्यर्थः । अनेन संप्रदायशुद्धिस्सूचिता ।
क्षोण्याः भूम्या रक्षणम् परिपालनम् प्रजासंरक्षणमिति यावत् ।
तस्मिन् जागर श्रद्धावान् नित्यमतन्द्रित इत्यर्थः । जागति सदा
प्रबुध्यति श्रद्धातीति जागृ निद्राक्षये इत्यस्मात् पचाद्यच् । अनासक्त
मनाः आसक्तम् तत्परम् मयेदमनुभूयत इत्यनुभूतिविषयेष्वास्थायुतम्
मनः यस्य आसक्तमनाः, तथाविधो न भवतीति तथोक्तः । अपेक्षा
रहित एवं सन्नित्यर्थः । विपुलान् विस्तृतान् भोगान् सुखानि अभुङ्क्त
बुभुजे अन्वभूत् । 'भुजोऽनवने' इत्यात्मनेपदम् । निलिप्तोऽपि लिप्त
इव सर्वाणि कर्माणि समाचरन् राज्याश्रमपदस्थः कश्चन कर्मयोगी
सोऽभवदिति परमार्थः ।
 
"
 
अथ राज्ञीं प्रस्तौति
 
-
 
देवायी नाम तस्यासी छवी वसुमतीपतेः ।
पत्र पक्षणस्येव शङ्करस्येव पार्वती ॥
 
॥ 73॥