This page has not been fully proofread.

मधुराविजये
 
अयं राजा धर्मोपकारितया तदितरांस्तेष्वसक्तोऽनुसेवते । अतस्तान्ना
यित इति । किन्तु न धर्ममिवोपकार्यतयेति परमार्थ: । बहुशब्दो
Sमुमेवार्थं गमयति । अत्र समोऽपि धर्मं बह्नमंस्तेति विरोधः । तस्य
चोक्तदिशा परिहार इति विरोधाभासो नामालङ्कारः । उपमा चैतस्मिन्
बहूपकरोतीति परस्परमेतयोरङ्गाङ्गिभावेन सङ्करः ॥
 
72
 
दानं पाणेश्श्रुतेस्सूक्तं मौलेस्त्र्यम्बक़पादुकाम् ।
भूषाममंस्त यशश्रीमान् श्रेयोऽवाप्तिसमुत्सुकः ॥ ॥7॥
 
दानमिति ॥ श्रीमान् लक्ष्मीवान् कीर्तिमान् बुद्धिमान् वा
यः राजा श्रेयसः सुकृतस्य निश्श्रेयसस्य वा
पुण्यश्रेयसी सुकृतं वृषः' इति, 'मुक्तिः कैवल्यनिर्वाणश्रेयोनिश्श्रेयसा
'स्याद्धर्ममस्त्रियां
मृतम् ' इति चामरः । अवाप्तिः प्राप्तिः आर्जनमित्यर्थः । अत्र समु
त्सुकः समुद्युक्तः । ' इष्टार्थोद्युक्त उत्सुक़: '
दानम् वितरणम् पात्रभूतायाथिने सादरमभिलषितार्थप्रदानम् तदेव
इत्यमरः । तादृशस्सन् ।
नत्वन्यत्केयूरादि, तस्य बन्धहेतुत्वेनाश्रेयस्करत्वात् । पाणे: हस्तस्य दक्षिण
स्येत्यर्थः । तस्यैव दानविधावर्हत्वात् । भूषाम् अलंक्रियाम् विभूषण
विधाम् अलंकृतिरचनामित्यर्थ: । 'भूषा तु स्यादलंक्रिया' इत्यमरः । या
भूषाम् विभूषणम् तथाविधमिति यावत् । यथावा केयूरादिभिः
पुरुषस्य लोके प्रशंसार्हता तथा दानेनापि तद्दातुरिति विभूषणत्वं
दानस्योपपद्यते । अमंस्त अज्ञासीत् । ज्ञानपूर्वकधर्माचरणस्यौचित्यात्तथा
करोदिति भावः । अफलार्थी सन् राजायमग्रहारादिदानेन सतः
प्रीणयामासेति तात्पर्यार्थिः । मन -
त्राप्यस्य संबन्ध: । किञ्च सूक्तम् सूक्तिः शोभना कल्याणाश्रया
ज्ञाने । लुङ् । क्रियापेक्षायामुत्तर
" भद्रैषां लक्ष्मीनिहिताधिवाचि " इति श्रुत्या विद्वज्जनवाचां
कल्याणाश्रयत्वस्याभिहितत्वात् । ताम् तथाविधां वाचमेव नतु कुण्डला
दीत्यर्थः । श्रुतेः श्रवणयोः । जातावेकवचनम् ।
 
-
 
S
 
वाक्
 
·