This page has not been fully proofread.

प्रथमसर्गः
 
तथापिता यामुत्प्रेक्षायामुपकरोतीति परस्परमेतेषां सङ्करः ॥
 
समोऽपि पुरुषार्थेषु स धर्म सम्मतस्तताम् ।
बह्वमंस्त पुमानाद्य स्वत्वं त्रिषु गुणेष्विव ॥ ॥ 69 ॥
 
:
 
4 क्तस्य
 
,
 
समोऽपीति ॥ सताम् सम्मतः सद्भिः पूजितः विद्वत्पूजाभाजनम्
सर्ववेत्तेत्यर्थः । 'मतिबुद्धिपूजार्थेभ्यश्च ' इति संपूर्वात् मनु अवबोधने
-
इत्यस्मात् वर्तमाने क्तः ।
च वर्तमाने ' इति षष्ठी ।
सः राजा । पुरुषैः अर्थ्यन्त इति पुरुषार्थाः धर्मार्थकामाः त्रिवर्ग
इति यावत् ।' त्रिवर्गो धर्मकामार्थेश्चतुर्वर्गस्समोक्षकै इत्यमरः ।
अर्थयतेः कर्मणि घञ् । पुरुषस्य इमे पुरुषार्थाः इति वा । - अर्थेन सह
नित्यसमासो विशेष्यलिङ्गता च ' इति समासः । तेषु समः साम्य
भाक् समबुद्धि: पक्षपातराहित्येन तान् सेवमान इत्यर्थः । " धर्मार्थ
कामास्सममेव सेव्या यो ह्यो कसक्तस्स जनो जघन्यः " इत्यागमादिति
भावः । आदौ भवः आद्यः सर्वेषामादिभूतः । दिगादित्वाद्यत् । पुमान्
पुरुषः शुद्धसत्त्वप्रधानो भगवान् विष्णुरित्यर्थः । यद्वा आद्यः मुख्यः
'
' आद्यमादिभवे मुख्ये भक्ष्ये चापि त्रिलिङ्गकम् इति
नानार्थरत्नमाला । पुरुषः पुरुषोत्तमः विष्णुः । त्रिषु विसंख्याकेषु गुणेषु
सत्त्वरजस्तमस्सु ' मौर्या द्रव्याश्रिते सत्त्वशुक्लसंध्यादिके गुण: ' इत्य
तथा अमंस्त
मरः । सत्त्वम् तन्नामकं गुणमिव बहु अधिकं यथा
अमन्यत आद्रियत । तेषु धर्मोत्तरोऽभवदित्यर्थः । यथाऽऽह गौतमः -
"न पूर्वाह्नमध्यंदिनापराह्वानफलान् कुर्यात् । तेषु धर्मोत्तरस्स्यात्
इति । त्रिवर्गेऽसक्तस्तान् समं सेवमानोऽपि धर्मस्तस्मिन् स्वयमेव
प्रवृद्धस्तं धर्मोत्तरमकरोदित्यर्थः । यथा अविद्याकार्याणि सत्त्वरजस्त
वशंगतप्रकृ
मांसि सममनुसरत्यपि भगवति जनार्दने ( तस्य
तित्वात् ) सत्त्वजा एव गुणास्तस्मित् स्वयं प्रवृद्धाः रज़स्तमस्सं
भवान् गुणानधःकृत्य तं शुद्धसत्त्वप्रकृति कुर्वन्ति तद्वदित्युपमार्थ: ।
 
उत्तमः
 
"
 
71
 
}