मधुराविजयम् /204
This page has not been fully proofread.
"
17]
पाणि विविधरूपाणि रविचन्द्राग्निरूपाणि अक्षीणि यस्येति विग्रहः ।
वामदेवो महादेवो विरूपाक्षस्त्रिलोचन: ' इत्यमरः । अलकापुरीम्
तन्नाम्नीं कुबेरनगरीम् । न स्मरति न कदाचिदपि चिन्तयति ।
धनदसखत्वेन पूर्वं तत्र वसन्नपीति भावः । 'अधीगर्थदयेशां कर्मणि
इति षष्ठी तु न । कर्मणश्शेषत्वेनाविवक्षितत्वात् । कैलासवासी धनद
सखो विरूपाक्षः पम्पायामवतीर्णोऽपि धनदसखत्वं न तत्याज
तत्रतावत्सखा धनद एक एव । अत्रतावद्वहवो धनदा इति कथं
वालकास्मरणं तस्योपपद्यत इति निर्गलितोऽर्थः । विरूपाक्षदेवस्यालका
विस्मरणेऽनेकधनदाश्रितत्वं विशेषणगत्या हेतुरिति काव्यलिङ्गमल
ङ्कारः । अनेककुबेराश्रितत्वं पम्पायाः कथमिति पुरतो विरोध
प्रतीतिः । धनदातारो बहवोऽत्र वर्तन्त इति श्लेषेण तद्विरोधपरिहार
इति विरोधाभासोऽपि । परस्परापेक्षया च तयोरङ्गाङ्गिभावेन सङ्करः ।
" आभासत्वे विरोधस्य विरोधाभास उच्यते " इति तल्लक्षणात् ।
आभ्यां पम्पानगरी स्ववैभवेन नितरामतिशेते तदलकापत्तनमिति वस्तु
ध्वन्यत इत्यलङ्कारध्वनिः ॥
"
-
प्रथमसर्गः
स तस्याममरावत्यां पुरुहूत इव स्थितः ।
अशिषद्दयामिव क्षोणी मनवद्यपराक्रमः ॥
69
-
11671
स तस्यामिति ॥ तस्याम् पूर्वं वर्णितायां विजयायामित्यर्थः ।
स न भवतीति अनवद्य
अवद्यः गर्ह्यः पराक्रमः यस्य अवद्यपराक्रमः
पराक्रमः । युद्धेष्ववक्रविक्रम इत्यर्थः । तादृक् सः राजा अमरावत्याम्
सुरराजधान्याम् । अमरा अस्यां सन्ति मतुप् । 'मतौ बहुचोऽनजि
रादीनाम् ' इति दीर्घः । पुरुहूतः इन्द्रइव पुरु प्रभूतम् हूतम्
ष्वाह्वानम यस्येति विग्रहः । स्थितः तिष्ठन् इन्द्रवैभवमनुभवन्
सन्नित्यर्थः । ष्ठा गतिनिवृत्तौ कर्तरि क्तः । 'स्थाध्वोः' इतीत्त्वम् ।
द्याम् स्वर्गम् सुरलोकमिव । क्षोणीम् भुवम् भूलोकम, अशिषत्
यज्ञे
१