This page has not been fully proofread.

मधुराविजये
 
वाचकत्वात् ष्यञ् । वामभ्रुवाम् मध्ये अवलग्ने उदर एव का
तनुता सूक्ष्मता सूक्ष्ममध्यास्तत्पुरस्त्रिय इत्यर्थः । अन्यत्र वित्तादिना
क्षैण्यं च । सर्वेऽपि तत्र महैश्वर्यभाज़ इति भावः । अत्र पुरस्त्रीणां

सौन्दर्येण साकं पौराणां वर्तनं वर्णितम् । स्तनादिषु काठिन्यादे
नियमनेन तदन्यत्र तत्तन्निषेधस्योक्तत्वात्परिसंख्यालङ्कारः । श्लेषानुप्राणिता
चेयमित्यनयोस्संकरः । अनया च तद्राजा महामहिमवानिति व्यज्यत इत्य
लङ्कारेण वस्तुध्वनिः । परिसंख्याया लक्षणं तु "परिसंख्या निषिध्यैक
मेकस्मिन् वस्तुयन्त्रणम्, इति । सिङ्गभूपालोऽपि स्वरसार्णवसुधाकरे
 
एतां कवयित्रीमनुकुर्वाण इव समवर्णयदेवम् "यस्मिन् शासति सिङ्ग
 

 
भूमिरमणे क्षमामन्नपोतात्मजे । काठिन्यं कुचमण्डले चपलता नेत्राञ्चले
सुभ्रुवाम् । वैषम्यं त्रिवलीषु मन्दपदता लीलालसायां गतौ । कौटिल्य
चिकुरेषु किंच कृशता मध्ये परं बध्यते ॥" इति ॥
 
68
 
"
 
-
 
यच्छाखानगरी पम्पा मनेकधनदाश्रिताम् ।
अधितिष्ठन् विरूपाक्षो न स्मरत्यलकापुरीम् ॥ ॥ 66
 
यच्छाखेनि । अनेकधनदाः असंख्याकाः कुबेराः धनदातारश्च
तैः । धनं दयते पालयतीति धनदः कुबेर' । 'मनुष्यधर्मा धनदः
इत्यमरः । देङ् पालने आतोऽनुपसर्गे कः । अन्यत्र धनं ददाति - दाञ्
दाने कः । आश्रिताम् सेविताम् स्वाश्रयतयाऽङ्गीकृतम् पम्पाम
पम्पानदीतीरस्थितत्वात् पम्पेति व्यवहृताम् । यस्याः विजयानगर्याः
शाखानगरी - शाखा चासौ नगरी चेति विग्रहः । वृक्षस्य शाखेव
प्रधाननगर्या अङ्गभूता नगरीत्यर्थः । शाखाशब्दश्च शाखासदृशे लाक्ष
णिक' । 'अन्यत्तु यन्मूलनगरात्पुरं तच्छाखानगरम् ' इत्यमरः । राज
धान्यामपर्याप्तस्य जनौघस्य निवासार्थ सरिदक सरोऽङ्क वा निर्मिता
नगरी । ताम् । अधितिष्ठन् तस्यां निवसन् सन्
 
"
 
साम्
 
इत्याधारस्य कर्मत्वम् । विरूपाक्षः तदाख्यः
 
"
 
7
 
अधिशी स्था
 
शिवः । विरू