मधुराविजयम् /202
This page has not been fully proofread.
प्रथमसर्गः
अप्रियं शत्रुमित्यर्थः । सौन्दर्याध करणाय सादृश्यवाञ्छात्रेति तासामप्रि
यत्वेन शत्रुत्वमत्रेति भावः । इच्छ्योस्समानत्वेपि तत्तद्धेत्वोभिन्नत्वेन
मित्रत्वामित्वत्त्वे संगच्छेते। तादृशम् अम्बरम् वस्त्रम् संव्यानम्
आकाशश्च । 'अम्बरं न द्वयोयोनि सुगन्ध्यन्तरवस्त्रयोः' इत्यमर
सुधा । तत् - कर्म । धरन्तीति धराः । पचाद्यच् । पयसां धराः पयोधराः
स्तनाः तेषाम् उत्सेधा: अन्नत्यानि उच्छूनता: तएव पयोधराः मेघाः
तेषाम् उत्सेधाः दैर्ध्याणि तैः आयतैमेघैरित्यर्थः । निरुन्धन्ति आवृ
ण्वन्ति गमनतिरोधमुत्पादयन्ति । एकत्र मित्रत्वाद् गाढालिङ्गनेन अन्यत
शत्रुत्वादाक्रमणेन चेत्यर्थः । स्ववृद्धि कामयमानस्य संभावनं स्वोत्कर्ष
मसहमानस्य समाक्रमणं च समुचितमेवेति भावः । प्राय इति संभा
वनायाम् । एवं संभाव्यत इत्युत्प्रेक्षा । पयोधरोत्सेधादिभिः पयोधरो
त्सेधादीनां श्लेषभित्त्याऽभेदोक्तेः श्लेषमूलातिशयोक्त्युत्थापितेयम् ॥
6.7
यत्र वामभ्रुवामेव काठिन्यं स्तनमण्डले ।
कौटिल्यं कबरीभारे कार्यं मध्ये च दृश्यते ॥ ॥6॥
यत्र वामेति ॥ यत्र यस्यां नगर्याम् वामौ सुन्दरे भ्रुवौ
स्तनमण्डलम् कुच
यासाम तासाम सुभ्रुवाम् स्त्रियामित्यर्थः ।
समूहः तस्मिन्नेव । एवकारोऽन्यत्र निषेधमवगमयति । नान्यत्रेति भावः ।
एवमुत्तरत्रापि । कठिनस्य भावः काठिन्यम द्रढिमा । गुणवचनेत्यादिना
प्यञ् । स्त्रियस्तत्र सर्वा अपि कठिनकुचा इत्यर्थः । निषेधपक्षे
निर्दयत्वम् । जनास्तत्र दयावन्त इति भावः । दृश्यते वीक्ष्यते
ज्ञायत इति वा । वामभ्रुवामित्यस्य दृश्यते इत्यस्य च परवाक्या
र्थेष्वपि संबन्धः । वामभ्रुवाम् कबर्य केशपाशा: केशसंनिवेशाः ।
जानपदेत्यादिना ङीष् । तेषां भारः भरः अतिशयिताः कबर्य
इत्यर्थः । तत्रैव कौटिल्यम् वक्रता स्त्रियस्तत्र सर्वा वक्रकेश्य इत्यर्थः ।
अन्यत्र कपटहृदयत्वं च । सर्वेपि तत्र निष्कल्मषहृदया इत्यर्थः । गुण