This page has not been fully proofread.

16]
 
प्रथमसर्गः
 
"
 
& काम:
 
यत्र स्त्रीति ॥ यत्र यस्यां नगर्याम् कटाक्षेषु अपाङ्गदृष्टिषु
यूनाम् तारुण्यवतां पुरुषाणाम् हृदयानि मनांसि हर्तुम् बलाद्वशं
नेतुं शीलं येषु तेषु हृदयहारिषु सत्सु । ताच्छील्ये णिनिः । अत्र
भावलक्षणाभावेऽपि 'पाथसि पीते तृष्णा शाम्य' तीतिवत् हेतुहेतुमद्भावे
सप्तमी । पञ्च पञ्चसंख्याका : सायकाः बाणा: 'शरे खड्गे च सायकः
इत्यमरः । 'अरविन्दमशोकं च चूतं च नवमल्लिका । नीलोत्पलं च
पञ्चैते पञ्चबाणस्य सायकाः इति चामरः । स्यति सायक: । षोड
न्तकर्मणीत्यस्मात् ण्वुल् । ते यस्य सः पञ्चसायकः मन्मथः
पञ्चशरः स्मरः' इत्यमरः । पुष्पाणि कुसुमानि तद्रूपाणि अस्त्राणि
शराः तेषाम् संचयः संचयनम् पुष्पपक्षे तत्रत्यानां तत्रत्यानामेकत्र
राशीकरणम्, अस्त्रपक्षे धनुषि संधानं च । चिञ् चयने - एरच् ।
तस्मिन् वाञ्छाम्, – तद्विषयिका मिच्छाम् मुञ्चते उज्झति । मुच्ऌ –
मोक्षणे तुदादिः । 'शे मुचादीना' मिति नुम् । अस्त्रसाध्यस्य कार्य
स्याश्रमेणान्यथा सिद्धेस्तदर्थे स्वप्रयत्नः केवलं क्लेशावह इति हेतो
रित्यर्थ: । पौरनारीणां तासां कटाक्षा अतीव मन्मथोद्दीपका वर्तन्त
इति भावः । अत्र चोत्तरार्धं प्रति पूर्वार्धस्य हेतुत्वेन वाक्यार्थं प्रति
वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । मन्मथस्य स्वास्त्रसंचयवाञ्छापर
त्यागासम्बन्धेपि तत्सम्बन्धोक्तेरतिशयोक्तिः । तयोः परस्परसापेक्षत्वेन
च सङ्करः ॥
 
-
 
(
 
.
 
9
 
मरालैर्मञ्जुमञ्जीर शिञ्जिताकृष्टमानसँः ।
 
लीलागतिमिव प्राप्तुं सेव्यन्ते यत्र योषितः ॥ ॥6॥
 
65
 
,
 
मरालैरिति ॥ यत्र - यस्यां नगर्याम् योषितः स्त्रियः 'स्त्री
योषिदबला योषा ' इत्यमरः । मञ्जूनाम् मनोहराणाम् ' मनोज्ञं
मञ्जु मञ्जुलम् ' इत्यमरः । मञ्जीराणाम् नूपुराणाम् पादाङ्ग
दानाम् पादाङ्गदं तुलाकोटि: मञ्जीरो नूपुरोऽस्त्रियाम् ' इत्यमरः ।
 
,