मधुराविजयम् /199
This page has not been fully proofread.
664
तासाम् । मुखानि अम्बुजानीव
इत्युपमितसमासः । मुखपद्मानि ।
"
तेषाम् लावण्यम् सौन्दर्यम्, "मुक्ताफलेषु या छाया तरलत्व
मिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्य मिहोच्यते " इति तल्लक्षणम् ।
तस्य अलाभः
लाभः प्राप्तिः 'अकर्तरि च कारके संज्ञाया' मिति
घञ्, संज्ञायामित्यस्य प्रायिकत्वात् । न लाभः अलाभ: अप्राप्तिः ।
प्रयत्नं कृत्वापि तदनधिगम इत्यर्थः । अभावार्थकनञा 'नञ्' इति
समासः । तेन लज्जित: संजातलज्जः प्राप्तव्रीड इत्यर्थः । तारका
दित्वादितच् । स्वकृतप्रयत्नवैफल्यस्य लोकविदितत्वादिति भावः ।
चन्दति आह्लादयति चन्द्रः सर्वलोकाह्लादकः इन्दुः । चदि आह्लादने ।
औणादिको रक् । अम्बुजशब्देन स्वशात्रवकृतपराभव इति च
सूच्यते । अतएव भूयसी लज्जेति भावः । हृदयम् मनः 'चित्तं तु
चेतो हृदयम्' इत्यमरः । तस्य व्यथा बाधा । 'पीडा बाधा व्यथा
दुःखम्' इत्यमरः । ताम् स्वमानसिकीं व्यथाम् आधिमित्यर्थः ।
कलङ्कः अङ्कः स्वस्य ख्यापकं चिह्नम, ध्वजादिवत् । तस्य छद्मना
स इति व्याजेन । असत्यस्य वस्तुनः सत्यत्वेन प्रकाश: व्याज:
कपटोऽस्त्री व्याजदम्भोपधयश्छद्म तवे ' इत्यमरः । तेन । करणे तृतीया ।
व्यनक्ति बहिः प्रकाशयति । अङ्गनामुखैस्साम्यमभिलषंश्चन्द्रस्तदर्थे प्रयत
मानस्तदलाभाल्लज्जते खिद्यति च । बलीयसीमेतां पीडामन्तर्धत्तु
मशक्नुवन् कलङ्कमिति लोकस्य दर्शयते वस्तुतो न तथेति भावः ।
चन्द्रबिम्बातिशायि तत्रत्ययुवतिजनमुखलावण्य मिति
अत्र छद्मन् शब्देन नैवायं कलङ्कः,
निर्गलितोऽर्थः ।
।
किन्तु मानसिकं दुःखमिति
कलङ्कस्य मिथ्यात्वप्रतिपादनादपह्नवः । " छलादिशब्दै र सत्यत्वप्रतिपादन
मपह्नव " इत्यलङ्कारसर्वस्वसूत्रम् ॥
66
8
मधुराविजये
-
यत्र स्त्रीणां कटाक्षेषु यूनां हृदयहारिषु ।
पुष्पास्त्रसंचये वाञ्छां मुञ्चते पञ्चसायकः ॥ ॥ 62