मधुराविजयम् /196
This page has not been fully proofread.
15]
प्रथमसर्गः
ईक्ष्यन्ते । जनैरिति शेषः । दृशे कर्मणि लट् । पद्मरागनिर्मितास्तत्रत्य
प्रासादाः मेघमण्डलं स्पृशन्तीति भावः । लोके यदा संध्याकालस्तदा
नीमेव मेघानामरुणिमा दृश्यते । अत्र तु न तथा सर्वकालेष्वपि पद्म
रागकान्तिसंपर्कात्तेषामारुण्यं दृश्यत इति तु विशेषः । अत्र मेघा
स्स्वीयं नैर्मल्यं परित्यज्य पद्मरागमणीनां लौहित्यं स्वीकुर्वन्तीति
वर्णनात्तद्गुणालङ्कारः। तद्गुणस्स्वगुणत्यागादन्यदीयगुणग्रहः
तल्लक्षणात् ॥
"
इति
((
१
संध्यासु यत्र निर्यान्ति जालेभ्यो धूपराजयः
अन्तःप्रदीपिकालोक चक्रितध्वान्तसन्निभाः ॥ ॥ 59॥
संध्यास्विति ॥ यत्र यस्मिन् पत्तने संध्यासु संध्याकलिषु । अत्र
संध्याशब्देन सायंसंध्यैवोच्यते । सायंसमय एव गृहादिसंस्काराय प्रायशो
धूपसंस्कारस्य दृष्टत्वात् । बहुवचनं तु सायंसंध्याया अपि दिनदिन
भिन्नत्वादनन्तत्वाभिप्रायेण । अन्यथा प्रातस्सायंसन्ध्ययोः प्रदीपिकापेक्षाया
स्सत्त्वेऽपि मध्याह्ने तदसम्भवात् । धूपानाम् अगर्वादिसुवासनद्रव्यजनित
धूमानाम् राजयः रेखा' मालिका: अविच्छिन्नधूपपरम्पराः । कर्भ्यः ।
लेखास्तु राजयः' इत्यमरः । चोरश्रेणय इति च गम्यते । दीपयन्तीति
दीपाः । प्रकृष्टा दीपा: प्रदीपः । प्रदिसमासः । प्रदीप एव प्रदीपिकाः ।
स्वार्थे कः । टाप् । इत्त्वम् । स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यति
वर्तन्ते क्वचिदिति ज्ञापनात् स्त्रीत्वम् । अन्तः गृहाभ्यन्तरेषु याः
प्रदीपिकाः तास्तथोक्ताः । अन्तर्गृहस्थशुद्धान्तपालिका इति च गम्यते ।
तासाम आलोका: तेजांसि दर्शनानीति च गम्यते ।' आलोको
दर्शनोद्योता ' वित्यमरः । तेभ्यः चकितानि भीतानि तथोक्तानि ।
'पञ्चमी भये' नेत्यत्र ' कर्तृकरणे कृता बहुल' मित्यतो 'बहुल
ग्रहणानुवृत्तेः ग्रामान्निर्गत इत्यादीनां सिद्धिरिति काशिका । तस्य बहुल
ग्रहणस्य प्रप्रश्वभूतमेव 'भयभीतभीभिरित्या 'दीति च । तेनैवात्रापि
,