This page has not been fully proofread.

मधुराविजये
 
इत्य
 
अकाण्डे असमये वर्षाकाले अनागते मेघोंदये अजाते इत्यर्थः । 'काण्डो
ऽस्त्री दण्डबाणार्ववर्गाविसरवारिषु ' इत्यमरः । तण्डु: नन्दिकेश्वरः
तेन प्रोक्तम् ताण्डवम् नाटयम् 'ताण्डवं नटनं नाटयम्
मरः । प्रोक्तार्थेऽण् । तस्य आरम्भम उपक्रम वितन्वन्ति आचरन्ति
तदर्थे सन्नद्धा भवन्तीत्यर्थः । संगीतकं राजगृहेषु तत्र नित्यं प्रवर्तत
इति भावः । संगीतमृदङ्गप्रतिव्वनयस्ते मधुरगम्भीरा वर्तन्त इति तेषु
मयूराणां मेघनादभ्रान्तिर्व्यज्यते । एतच्च व्यङ्ग्यं वाच्यसिद्ध्यङ्गम् ।
एतेन विना वाच्यार्थस्यानुपपत्तेः । अत्र शिखण्डिनां नर्तनासम्बन्धेऽपि
तत्सम्बन्धः कविप्रौढोक्तिमूल इत्यतिशयोक्तिरलङ्कारः ।
'अकाण्डे '
इत्युक्तेः कारणं विनाऽपि कर्योत्पत्तिरत्र वर्णितेति विभावनापि । तयोः
परस्परं नैरपेक्ष्यात्संसृष्टि । 'विभावना विनापि स्यात्कारणं कार्य
जन्म चेत् ' इति तल्लक्षणम् ॥
 
60
 

 
पद्मरागोपलोत्कीर्ण प्रासादप्रान्तवर्तिनः ।
 
सन्ततं यत्र दृश्यन्ते सान्ध्या इव वलाहकाः ॥ ॥ 58॥
 
तथा
 
पद्मरागेति ॥ पद्मरागाः तन्नामानः मणिविशेषाः रक्तवर्णाः
ते च उपला' मणयः तथोक्ताः । चूतवृक्षादिवत्समासः । तैः उत्कीर्णाः
खचिताः पद्मरागमणिनिर्मिता इत्यर्थः । उत्पूर्वकात् क्ऋधातोः क्तः ।
इत्त्वदीर्घौ । 'रदाभ्याम्' इति निष्ठातो नः । णत्वं च ।
विधाः प्रासादाः सौधाः तेषाम् प्रान्ताः असन्न प्रदेशाः तेषु वर्तितुं
शीलम् एषामिति तथोक्ताः । ताच्छील्ये णिनिः । वलाहका: वारि
वाहका: मेघाः । वारिवाहक इत्यस्यैव वलाहक इति रूपम् । पृषो
दरादित्वात् वारिशब्दस्य व इत्यादेशः । उत्तरपदादेर्वकारस्य लादेशश्च ।
पद्मरागमयतत्सौधप्रान्तसंचारिणस्तदीयकान्तिसमाच्छादिता मेघा इत्यर्थः।
 
सान्ध्याः – संध्यासु भवाः संध्याकालस्थिता मेघाः । त इव तद्वदा
रुण्यवन्त इत्यर्थः । सततम, सदा कालविशेषमनपेक्ष्यैवेत्यर्थः । दृश्यन्ते