This page has not been fully proofread.

प्रथमसर्गः
 
यत्सौधेति ॥ मृगेक्षणाः स्त्रियः । कयंः । मृगस्य हरिणस्य
'ईक्षणे नेत्रे मृगेक्षणे 'मृगः पशौ कुरङ्गे च' इति विश्वमेदिन्यौ ।
'ईक्षणं चक्षुरक्षिणी । दृग्दृष्टी' इत्यमरः । त इव ईक्षणे यासामिति
विग्रह.
'सप्तम्युपमानपूर्वपदस्य' इत्युत्तरपदलोपः । लक्षणा वा
मृगशब्दस्य मृगेक्षणे । यस्याः नगर्याः सौधाः यत्सौधाः यदीयानि
राजसदनानि । 'सौधोऽस्त्री राजसदनम्' इत्यमरः । तेषाम् चन्द्र
शाला: शिरोगृहाणि तासु विहरन्त्यः संचरन्त्यः क्रीडन्त्यः इति यावत् ।
तादृश्यस्सत्यः। मुक्तानाम् मौक्तिकमणीनां कन्दुक: कन्दुः वर्तुलाक़ारं
क्रीडासाधनम् । प्रकृतिविकृतिभावे षष्ठी । तस्य शङ्का भ्रान्तिः स
एवायमिति भ्रमः । उभयोरत्यन्तं सदृशत्वादिति भावः । तया । शशः
मृगविशेष: अङ्क: लाञ्छनम् यस्य तम् मृगाङ्कम चन्द्रम् अव
लम्बन्ते आददते, पाणिभिरिति शेषः । सौधानामुपरिगृहेषु क्रीडन्त्य
स्त्रियस्तत्रत्य मिन्दुबिम्बं दृष्ट्वा धवलतया वर्तुलतया च भ्रान्ताः मुक्ता
मयं केलिकन्दुक मिदमिति चन्द्रबिम्बमेव पाणौ कुर्वन्तीति श्लोकार्थः ।
चन्द्रमण्डलस्पर्शिनः प्रासादास्तत्रत्यास्सर्वेऽपीति तात्पर्यार्थः । अत्र
चन्द्रपरिग्रहणासम्बन्धेऽपि तत्सम्बन्धो वर्णित इत्यतिशयोक्तिः । परि
ग्रहणे च हेतुः कन्दुकभ्रम इति भ्रान्तिमता सङ्कीर्यते चैषा ॥
 

 
"
 
यत्र सौधेषु संगीत मृदङ्गप्रतिनादिषु ।
अक़ाण्डे ताण्डवारम्भं वितन्वन्ति शिखण्डिनः ॥ ॥ 57 ॥
 
59
 
यत्रेति ॥ यत्र यस्यां नगर्याम् । सप्तम्यास्त्र । शिखण्ड: बर्हः
एषामस्ति शिखण्डिनः मयूराः । कर्तारः । ' शिखण्डो बर्हचूडयो: '
इति हैमः । मत्वर्थीय इनिः । सौधेषु राजसदनेषु संगीतम् गानम्
मृदङ्गः मुरज़ः गानाङ्गत्वेन वाद्यमान इत्यर्थः । ' मृदङ्गा मुरजाः
इत्यमरः । तयोः प्रतिनादः प्रतिध्वनिः सः एष्वस्तीति मत्वर्थीय इनिः ।
इति भावलक्षणा सप्तमी ।
तथाविधेषु सत्सु । ' यस्य च भावेन
 
"
 
,