मधुराविजयम् /193
This page has not been fully proofread.
मधुराविजये
सत्यं च संश्रिताः " इति रामायणम् । अत्र सुकृताम्बुधेरिति रूपकम् ।
अन्यत्रोत्प्रेक्षा । कुलकम् । " द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिश्श्लोकै
विशेषकम् । कालापकं चतुर्भिस्स्यात्तदूर्ध्वं कुलकं स्मृतम्" इति
तल्लक्षणात् ॥
58
यस्यां प्रासादशृङ्गेषु लग्नं मार्ताण्डमण्डलम् ।
संधत्ते वीक्षमाणानां सौवर्णकलशभ्रमम् ॥ ॥5॥
"
यस्यामिति ॥ यस्याम् यन्नगर्याम् । प्रसीदति मनः अत्रेति
प्रासादा: राजगृहाणि 'हर्म्यं तु धनिनां वास: प्रासादो देवभू
भुजाम् ' इत्यमरः । 'हलच' इति घञ् । 'उपसर्गस्य घञ्' इति साद
कारयोः कृत्रिमयोः बहुलग्रहणाद्दीः । अतएव प्रसाद इत्यत्र दीर्घो
नेति काशिका । तेषाम् शृङ्गाणि शिखराणि अग्रभागा । तेषु लग्नम्
सतम् तैः निरुद्धं सत् तत्र स्थितमित्यर्थः । मार्ताण्डमण्डलम् सूर्यबिम्बम् ।
कर्तृ । वीक्षमाणानाम् पश्यतां जनानाम् । समेन धावति । विषमेण
धावति' इत्यत्र 'समेन पथा धावति । विषमेण पथा धावति '
इति यथा । सौवर्णः सुवर्णस्य विकार: स्वर्णनिर्मित इत्यर्थः । विकारेऽण् ।
सचासौ कलशः कुम्भः तस्य भ्रमः भ्रान्तिः अतस्मिस्तदिति मिथ्याज्ञानम्
तम् संधत्ते विदधाति उत्पादयतीत्यर्थः । पूर्णकलशानां मङ्गलप्रदत्वेन
राजगृहोपरि संस्थाप्यमानत्वादेवं संभाव्यत इति भावः । संपूर्वात्
धाञो लट् । तत्रत्याः प्रासादास्सूर्यमण्डलं स्पृशन्तीति तैस्सूर्यगमनस्य
निरुद्धत्वात् तदुपरिस्थितं सूर्यबिम्बं सौवर्णकलशभ्रान्ति जनयतीति
भ्रान्तिमानलङ्कारः । सूर्यस्य लौहित्यं कविसमयसिद्धम् - यथाह
देवेन्द्रस्स्वकविकल्पलतायाम्
शोणानि भौमतीक्ष्णांशुता कुङ्कुम
"(
इति ॥
तक्षकाः
"
यत्सौधचन्द्रशालासु विहरन्त्यो मृगेक्षणाः ।
शशाङ्कमवलम्बन्ते मुक्ताक़न्दुकशङ्कया ॥
156