This page has not been fully proofread.

54
 
मधुराविजये
 
वल्ल्यः स्त्रिय एव लता: । 'वल्ली तु व्रततिलता' इत्यमरः । पुंवद्भावः ।
तासां विलासाः विभ्रमाः तेषाम् वनवाटिका गृहोद्यानपरम्परा ।
करिकलभादिवत् वनशब्दप्रयोगः । वाटिका उद्याननङ्क्तिः 'वाटी
वास्तौ गृहोद्यानेत्कट्योः' इति हैमः । वाटयेव वाटिका । स्त्रार्थे कः ।
' केडण: ' इति ह्रस्वः । लताविलासै रुद्यानशोभेत्र तत्रत्य सुन्दरीजनविभ्रमैः
पत्तनशोभातीत्र पोष्यत इति भावः । किञ्च । दक्षिणाशा दक्षिणा दिक् सैव
सरोजाक्षी स्त्री । सरोजे इव अक्षिणी यस्याः इति विग्रहः । 'बहुव्रीहौ
सक्थ्यक्ष्णोस्स्वाङ्गात्' इति पत्र । पिस्चात् ङीव् । तस्याः फालम्
अलिकम् तस्य । लीलाललाटिका लीला विलासः
केलिविलासखेलाश्श्शृङ्गारभावप्रभवक्रियासु ' इति विश्वः ।
"लीलां विदुः
 

 
तस्याः तदर्थे
 
ललाटिका
 
इत्यमरः ।
 
ललाटस्य अलङ्कारः भूषणम् ' पत्त्रपाश्या ललाटिका
ललाटात्कनलङ्कारे' इति कन् । टाप् । ' प्रत्ययस्थात्
इतीत्त्वम् । लीलाधृतललाटभूषणमिति यावत् । शृङ्गारसर्वस्वभूताभिः स्त्री
भिरलङ्कृता सा नगरी दक्षिणदेशस्य सर्वस्यापि ललाटधृतं परमं
मण्डनमित्र परां शोभां जनयन्ती विराजत इति निष्कृष्टोऽर्थः ।
मालारूपकमलङ्कारः । लीलाललाटिकेत्यादी वृत्त्यनुप्रासश्च ॥
 
(
 
-
 
-
 
द्विजराजसमुल्लास नित्यराकानिशीथिनी ।
गन्धर्वगणसान्निध्य नव्यदिव्य वरूथिनी ॥
 
115211
 

 
"
 
द्विजेति ॥ द्वि जायन्ते द्विजा' । 'जन्मना जायते शूद:
इत्यादिस्मरणात् । ' अन्येभ्योऽपि दृश्यते' इति डः । ते राजानः नृपा
इव द्विजराजा: ब्राह्मणश्रेष्ठाः । ' उपमितं व्याघ्रदिभिः' इति समासः ।
'राजाहस्सखिभ्यः' इति टच् । तेषाम् समुल्लास: संतोषातिशयः
स एव । द्विजराजस्य चन्द्रस्य ' द्विजराजश्शशधरो नक्षत्रेशः ' इत्यमरः ।
समुल्लास: प्रकाश: चन्द्रिका तस्य । नित्या नियतभवा
तदेति भावः । राकानिशीथिनी पूर्णिमारात्रिः । निशीथः अर्धरात्रः
। नतु तदा