This page has not been fully proofread.

13]
 
प्रथमसर्गः
 
>
 
मञ्जुलः । 'लोमादिपामादि' इत्यादिना लः । मञ्जु लाति आदत्ते 'आतो
ऽनुपसर्गे कः इत्यमरसुधा । तैः । क्रीडाया: जलक्रीडार्थे । ताद
षष्ठी । सरांसि कासारा: 'कासारस्सरसी सर: ' इत्यमरः । तथोक्तानि
तैः । सहिता युक्ता शोभितेत्यर्थः । अत्र सरश्शोभापौष्कल्यं वर्ण्यत इत्युदा
त्तालङ्कारः । " तदुदात्तं वस्तु यत्र वर्ण्य ते सुसमृद्धिमत्" इति तल्लक्षणात् ॥
 
यशस्तोमैरिवाशेष नगरीविजयाजितैः ।
 
सौधः प्रकाशितोत्सेधा शरदम्भोदपाण्डरैः ॥ ॥ 50 ॥
 
53
 
PO
 
यश इति ॥ अशेषाः सर्वा नगर्यः तासाम् विजया : अभिभव
नानि वैभवादिना अधकरणानि तैः आजितैः सम्पादितः समुपलब्धै
रित्यर्थ: । 'जि अभिभवे' इत्यतो विपूर्वादच् । तैः । यशसां स्तोमाः
समूहा: यशोराशयः कीर्तिपरम्परा तैरिव स्थितैरित्युत्प्रेक्षा । कीर्तीनां
धवलत्वात् सौधा एवं संभाव्यन्ते । शरदि अम्भोदा: शरदम्भोदाः ।
शरत्कालमेघाः त इव पाण्डरा धवला: ' विशदश्येतपाण्डरा: '
इत्यमरः । तैः सौधै: सुधालेपवद्भिः राजगृहै । करणभूतैः । ' सौधोऽस्त्री
राजसदनम्' इत्यमरः । सुधा सुधालेपः एषु अस्तीति ज्योत्स्नादि
त्वादण् । प्रकाशितः प्रख्यापितः सर्वजनवेदितः उत्सेधः दैर्घ्यम् आत्मो
त्कर्ष इति च गम्यते । स यया सा तथोक्ता । ' नगाद्यारोह उच्छ्राय
उत्सेधचोच्छ्यश्च सः । इत्यमरः । तादृशी स्थितेत्यर्थ: । शारदाभ्रव
त्सुधालेपैरतिधवलैः राजसदनैस्सर्वनगराण्यतीत्य वर्तमाना सा नगरी
स्वार्जितकीर्तिपरम्पराभिस्सर्वजनविदिततया स्वीय मौन्नत्यं प्रकाशयन्ती
विराजते इति निर्गलितोऽर्थः ॥
 
विकसद्वनितावल्ली विलासवनवाटिका ।
दक्षिणाशासरोजाक्षी फ़ाललीलाललाटिका ॥ ॥ 51 ॥
 
विकसदिति ॥ विकसन्त्यः विलसन्त्यः पुष्प्यन्त्यश्च वनिता