This page has not been fully proofread.

मधुराविजये
 
राज्ञां पुराणि । दुर्गाणि षडिति मनुरेवमाह व मह
मब्दुर्गं वार्क्षमेव वा । नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम्
इति । एतेषां विवृतिस्तु मदीयान्त्रव्याख्यातोऽवगन्तव्या । तैरिव स्थित
रित्युत्प्रेक्षा । केलिपर्वतैः क्रीडाचलैः । महिता पूजिता । लोकैरादृतेत्यर्थः ।
मन्मथो मह्यां शत्रुभ्यस्स्वरक्षणाय गिरिदुर्गाणि निर्माय सुखं तत्र वसति
त एवैते क्रीडागिरय इत्यभिधीयन्त इति भावः । क्रीडागिरिषु च तेषु
कदलीवनानि तेषु च कस्तूरीमृगा इत्येवंरीत्यात्यन्तं मन्मथो
द्दीपकत्वं तेषामुक्त्वा तेषु मदनस्य निनिरोधसंचारत्वमभिधीयते ।
तेन गिरीणां गिरिदुर्गत्वसंभावना नितरां युज्यते । अस्मिन् श्लोके
शृङ्गारसमृद्धिर्वणितेति समृद्धिमद्वस्तुवर्णनादुदात्तालङ्कारोऽपि । गम्यो
त्प्रेक्षायाश्च सापेक्ष्यात्सङ्कर एतेन ॥
 
52
 
""
 
कमलामोदमधुरैः कलहंसकुलाकुलैः ।
क्रीडासरोभिस्सहिता मणिसोपानमञ्जुलैः ॥
 
114911
 
क़मलामोदैरिति ॥ क़मलानाम् पद्मानाम् ' सहस्रपत्र कमल
मिति पद्मपर्यायेष्वमरः । तेषाम् आमोदाः सौगन्ध्यानि 'आमोदो गन्ध
हर्षयोः' इत्यमरसुधा । तैः मधुराणि प्रीतिकराणि 'स्वादुप्रियौ च
मधुरौ ' इत्यमरः । कमलायाः लक्ष्म्याः आमोदः प्रीतिः तेन मधुरैः दर्शनी
यैरित्यप्यर्थान्तरम् । पद्मालया लक्ष्मीस्तत्र नित्यं सन्निहिता मोदमनु
भवतीति तस्याः कान्तिमत्त्वेन नितरां दर्शनीयतेति भावः । कलहंसा: राज
हंसाः। तेषां कुलानि समूहाः श्रेणय इत्यर्थः । तैः आकुलानि
व्याप्तानि ' व्यस्ते त्वप्रगुणाकृलौ' इत्यमरः । ' व्यस्तन्तु व्याकुले
व्याप्ते ' इति विश्वः । श्रेणीकृताः राजहंसाः तत्र कूजन्ति । तेन च
मनोज्ञानि वर्तन्ते तानीति भावः । मणीनां सोपानानि आरोहणानि ।
'आरोहणं स्यात्सोपान ' मित्यमरः । तैः मञ्जुलानि मनोहराणि
' मनोज्ञं मञ्जु मञ्जुलम्' इत्यमरः । मञ्जु मनोहरत्वम् अस्यास्तीति
 
>