This page has not been fully proofread.

प्रथमसर्गः
 
उत्फुल्लचम्पकांशोक नागकेसरकेसरैः ।
वसन्तवासभवनै रारामैरभितो वृता ॥
 
51
 
॥47॥
 
उत्फुल्लेति ॥ उत्फुल्ला: सुष्ठु विकसिता: 'फुल्ल विकसने '
पचाद्यच् । चम्पकाः चाम्पेयपुष्पाणि 'पुष्पमूलेषु बहुलम् ' इति विकार
प्रत्ययस्य लुक् । अशोका: वञ्जुलाः तेषाम् पुष्पाणि । नागकेसराः
काञ्चनाह्वयपुष्पाणि । केसराः वकुलपुष्पाणि 'लुपि युक्तवद्व्यक्तिवचने
इति प्रकृतिलिङ्गता । ते येषु तैः । वसन्तस्य तदाख्यस्य ऋतोः
 
कस्तूरीहरिणाकान्त कर्पूरकदलीतलैः ।
मनोभवमहीदुर्गे महिता केलिपर्वतैः ॥
 
7
 
• तदधिष्ठानदेवस्य माधवस्येत्यर्थः । वास: निवासः तस्य तदर्थे - तादर्थ्यो
षष्ठी । यानि भवनानि गृहाः तैः तैरिव स्थितैरित्युत्प्रेक्षा । सर्वकालेषु
सर्वदा वृक्षाः पुष्प्यन्तीति तेषामाश्रयाः आरामाः वसन्तवासभवनानि
स्युरिति संभाव्यन्ते । तैः आरामैः क्रीडार्थं कल्पितरुपवनैः 'आरामस्स्या
दुपवनं कृत्रिमं वनमेव तत् ' इत्यमरः । अभितः परितः सर्वत्र वृता
आवृता व्याप्ता । वृञ् आवरणे क्तः । वसन्तलक्ष्मीस्तत्र सदा सन्निहिता
नित्यविकासं तेषामारामाणां घटयतीति वैलक्षण्य मितरेभ्यस्तेषां कथ्यते ।
तत्रत्या आरामास्सर्वे नन्दनवनसदृशा इति पर्यवसितोऽर्थः ॥
 
114811
 
कस्तूरीति ॥ कस्तूरी मृगनाभिः तस्याः । जन्यजनकभावे षष्ठी ।
तज्जनकाः हरिणाः कस्तूरीमृगाः येषां नाभितः मृगमदस्संजायते ।
अतएव मृगनाभिरिति तस्या व्यवहारः । तैः आक्रान्ताः आच्छादिताः ।
कर्पूरकदलीनाम् रम्भाविशेषाणाम् तलाः ( सम ) प्रदेशाः येषां ते
तादृशैस्सद्भिरित्यर्थः। मनोभवः मनसिजः मन्मथः महीदुर्गे: स्थलदुः
यद्वा मह्यां भूम्यां निर्मितानि महीनिमितानि । तानि दुर्गाणि । शाक
पार्थिवादित्वादुत्तरपदलोपः । वैरिराजानां दुरधिगमतया निमितानि