This page has not been fully proofread.

50
 
मधुराविजये
 
सप्तद्वीपाया भूमेरवधिभूतः पर्वतः (चक्रवालशब्दे विनापि प्रत्ययेन
पूर्वोत्तरपदयोर्वा लोपो वक्तव्यः' इति वालशब्दस्य लोपे चक्र
शब्दस्य शेषः ) चक्र इत्यचल: पर्वतः चक्राचल: तस्य प्रकार: विधा
यस्य तेन । सर्वथा तत्सदृशेनेत्यर्थः । सर्वां भूमिमावृत्य व्योमस्पर्शी
वर्ततेऽयमित्यहो अस्य परिणाह: औन्नत्यं चेति भावः । प्राकारेण सालेन
दुर्गमभितो वर्तमानेन 'प्राकारो वरुणस्साल: ' इत्यमरः ।
अलंकृता । परिपूर्वक़ात्कृञः कर्मणि क्तः । 'संपरिभ्यां करोतौ भूषणे
इति सुट् । 'परिनिविभ्याम्' इति षत्वम् । परंपरितरूपकमलङ्कारः ॥
 

 
परिष्कृता
 
J
 
स्फुरन्मणिप्रभात पुरुहूतशरासनैः ।
सुमेरुशृङ्गसंकाशै गपुरैरुपशोभिता ॥
 
6
 
114611
 
स्पुरदिति ॥ स्फुरन्त्य: शोभमानाः मणीनां प्रभाः कान्तयः
ताभिः आहूतम् आक़ारितम् । स्पर्धयेति भावः । आङ्पूर्वात् ह्वयतेः
क्त' ।' वचिस्व' पीति संप्रसारणम् । ( पुरु बहुलम् हूतम् आह्वानम्
यज्ञेषु यस्य तस्य ) पुरुहूतस्य इन्द्रस्य ( शरा अस्यन्ते क्षिप्यन्तेऽनेन )
शरासनम् धनुः इन्द्रधनुरित्यर्थः । तत् यैस्तैः तथाविधैः । नवरत्नकान्तयः
इन्द्रधनुषः प्रभा इव नैकविधास्तत्र विद्योतन्त इति भावः । सुमेरु
हेमाद्रिः 'मेरुस्मुमेरुर्हेमाद्रि' इत्यमरः । तस्य शृङ्गाणि शिखराणि तैः
सदृशानि तथोक्तानि । तैः 'स्युरुत्तरपदे त्वमी निभसंकाशनीकाशप्रती
काशोपमादयः ' इत्यमरः । गोपुराणि पुरद्वाराणि द्वाराणि वा पुर
द्वारं तु गोपुरम्' इति ' द्वारमात्रं तु गोपुरम्' इति चामरः ।
तैः उपशोभिता विद्योतिता संप्रापितप्रकाशेत्यर्थः । उपपूर्वात् शुभं भासने
इत्यस्मात् ण्यन्तात् कर्मणि क्तः । गृहद्वाराणि पुरद्वाराणि च काञ्चन
निमितानि महोन्नतानि भूत्वा प्रकाशन्ते । तस्मान्मे रोरग्रभागैस्सदृशास्ते
राजन्त इत्युपमीयन्ते ॥
 
"