मधुराविजयम् /184
This page has not been fully proofread.
12]
प्रथमसर्गः
कारः । तस्य भावः तत्ताम् परिखात्वमिति यावत् । यान्त्या लभन्त्या
धरन्त्या । यातेरादादिकाल्लटरशता । ' आच्छीनद्योः' इति पक्षे नुम् ।
ङीप् । तुङ्गभद्रया 'तुङ्गा भद्रा' इति नदीद्वयमिदमेवं व्यवह्रियते ।
एतन्नामकनद्या परीता अभितो व्याप्ता । समानानामुत्तमश्लोकत्वस्य
सर्वैरप्यभिलष्यमाणत्वादिति भावः । परिपूर्वादि कर्मणि क्तः । देव
लोकपरिखात्वं च स्वर्णद्या प्रसिद्धम् अतएव कालिदास एवमाह
गङ्गास्रोतः परिक्षिप्तं वप्रान्तर्ज्वलितौषधि । बृहन्मणिशिलासालं
गुप्तावपि मनोहरम् " इति । अत्र मल्लिनाथः - "गङ्गायाः स्रोतोभिः
प्रवाहै: परिक्षिप्तम परिवेष्टितम् तैरेव सपरिखमित्यर्थः " इति ।
अत्र तुङ्गभद्रायाः परिखात्वे वस्तुतस्स्वर्णदीमत्सरोऽहेतुरित्यहेतोर्हेतुत्व
कल्पनात् हेतुत्प्रेक्षा । अनया गङ्गावदगाधत्वं परिखाया अस्याः ऐश्व
र्यादिभिस्स्वर्लोकसाम्यं विजयानगर्याः, सुमनस्त्वं च तत्रत्य जनानां
व्यज्यत इत्यलङ्कारेण वस्तुध्वनिः ॥
66
े
-
लक्ष्मीलतालवालेन क्ष्मावधूनाभिशोभिना ।
चक्राचलप्रकारेण प्राकारेण परिष्कृता ॥
49
॥5॥
लक्ष्मीरिति ॥ लक्ष्मी: संपत् सैव लता वल्ली तस्या आल
वालम् ( आसमन्ताल्लवमल्पजलम् आलाति गृह्णातीत्यालवालम् इति
व्युत्पत्तिः ) आवापः वृक्षमूलकृतो जलाधारः । 'स्यादालवालमावापः
इत्यमरः । लक्ष्म्याः नित्यनिवास इत्यर्थः । तेन तथाभूतेनेत्यर्थः ।
प्राकारस्यालवालत्वोक्त्या आलवालं यथा लतायाः परिपोषकं जलादिना
तथा लक्ष्म्यास्संवर्धकं शानवनिरोधनेनायमित्युक्तं भवति । क्ष्मा भूमिः
सैव वधूः स्त्री 'वधूर्ज़ाया स्नुषा स्त्री च' इत्यमरः । तस्याः नाभिः
तथाभूता शोभत इति स तथोक्तः । ताच्छील्ये णिनि । भूभागमध्य
स्थितत्वादगाधत्वाच्च नाभिसदृशः प्राकार इति भावः । तेन । चक्रः
चक्रवालः चक्रम् भूमण्डलम् वलते वेष्टत इति चक्रवालः लोकालोकः
,