मधुराविजयम् /181
This page has not been fully proofread.
46
मधुराविजये
महान्तमुत्पातं जनयिष्यतीति सूर्योऽप्याशङ्कतेति च गम्यते । अत्र
रजसि राहुसंदेहस्य सूर्येऽसम्बन्धेऽपि तत्सम्बन्धो वर्णित इत्यति
शयोक्तिः । कोटिद्वयावगाहिज्ञानविषययोः प्रत्यक्षतोऽनिर्देशेऽपि संदेह
पदेन तदवगमात् संदेहालङ्कारध्वनिश्च । पुरा मोहिनीरूपधरं विष्णुं
वञ्चयित्वा सुधापाने प्रवृत्तः कश्चन दैत्यस्सूर्यचन्द्राभ्यामावेदितो दैत्यारिणा
कृतववो राहुकेतू भूत्वा ताभ्यां वरः पर्वणि पर्वणि तौ ग्रसत इति
पुराणेषु प्रसिद्धम् । अपर्वण्यति राहुग्रहणं चन्द्रसूर्ययोररिष्टसूचकतया
शास्त्रेषूक्तम् – यथाव्ह वराहमिहिर' – "अपर्वणि तथा राहुग्रहणं
चन्द्रसूर्ययोः । चन्द्रार्कमण्डलच्छिद्रं दृष्ट्वा जनपदक्षवः" इति ॥
यद्विभूतिस्तुतौ स्वल्पा लक्ष्मीर्यक्षामरेशयोः ।
दूरे दुर्योधनादीनां सम्पत्सादृश्यकल्पना ॥ 114211
यक्षाश्च
यद्विभूतीति ॥ यस्य राज्ञः । विभूतिः ऐश्वर्यम् यद्विभूतिः ।
'विभूतिर्भूतिरैश्चर्यम्' इत्यमरः । तस्याः स्तुतिः श्लाघनम् । स्त्रियाम्
क्तिन् । तस्यां सत्याम् तत्प्रस्तावनाप्रसङ्गे संभवतीत्यर्थः ।
अमराव यक्षामराः । यक्षाः देवयोनिविशेषाः । अमराः देवाः । तेषाम्
ईशौ प्रभू । यक्षेशः कुबेर अमरेशः इन्द्र श्वेत्यर्थः । तयोः लक्ष्मीः
सम्पत् । स्वल्पा सुडु अल्पा परिमाणतः अत्यन्तं सूक्ष्मा अतिन्यूना
असत्कल्पेत्यर्थः । 'कुगतिप्रादयः' इति समासः । तदीवाया एतदी
यायाश्च सम्पदस्साम्यमेव नास्तीति यावत् । तद्विभूतिस्तुतौ - इत्यर्था
दापतति । दुःखेन युध्यत इति दुर्योधनः दुर्योधनसंपदिति संपदि
प्रख्याति गतो धार्तराष्ट्र भाषायाम् शासियुविदृशि' इत्यादिना
युच् । सः आदिः सदृशः येषाम् । तेषाम् । संपत् तस्या: 'तुल्यार्थैरतुलो
पमाभ्यां तृतीयायतरस्याम् ' इति पक्षे षष्ठी । तयेत्यर्थः । सादृश्यम्,
साम्बम् । तस्य कल्पना संभावना तद्विषयक ऊह इत्यर्थ: । दूरे
दूरा दूरस्था नतु सन्निहिता । हस्तिनामेव दुरापास्तत्वे मशकानां
S
"