This page has not been fully proofread.

11]
 
द्रुह्यति तदा किमुतेति भावः । गजानामम्भोदानां च साम्यं प्रसिद्धं
कविसमये । राज्ञस्सभाङ्गणे बद्धास्ते बन्दीकृतजलदत्वेन संभाव्यन्त
इति स्वरूपोत्प्रेक्षा । जैत्रयात्रा निरोधिन इत्ययं तत्र हेतुं निर्दिशतीति
तस्याः काव्यलिङ्गेन सङ्कर । देवस्य पर्जन्यस्याप्यनुशासने समर्थस्स
इति तस्य प्राभवमनितरसाधारणमित्युत्प्रेक्षया द्योत्यत इत्यलङ्कार
कृतो वस्तुध्वनिः ॥
 
"
 
प्रथमसर्गः
 
तस्य राज्ञः दण्डसमुद्भवं तेज प्रस्तौति -
 
यस्य सेनातुरङ्गाणां खुरैरुत्थापितं रजः ।
अकाण्डे राहुसन्देहं मार्ताण्डस्योदपादयत् ॥ 114111
 
"
 

 
यस्येति ॥ यस्य राज्ञः । सेना चतुरङ्गबलम् तत्रत्याः तुरङ्गाः
अश्वाः । तुर त्वरणे - घञर्थे कः । तुरेण गच्छन्तीति गमश्चेति डः ।
अरुद्विषदजन्तस्येति मुम् । तेषां खुरैः शफैः पादै: उत्थापितम्
उद्यापितम् आकाशं प्रापितम् । उत्पूर्वात्तिष्ठते: ण्यन्तात् क्तः ।
'अतिह्रीव्लीरीक्नूय्याताम् ' इति पुगागमः । 'उद स्थास्तम्भोः' इति
पूर्वसवर्ण रज धूलि । कर्ता । अकाण्डे असमये अपर्वणीत्यर्थः । 'काण्डो
ऽस्त्री-दण्डबाणार्ववर्गावसरवारिषु' इत्यमरः । मार्ताण्ड: सूर्यः । मृतम्
अण्डम् बह्माण्डम् मृतण्डम् । शकन्ध्वादित्वात्पररूपम् । तत्र भवः
अण् । ब्रह्माण्डं द्विधा भिन्नं सदमुमुत्पादयामासेति मत्स्यपुराणादव
गम्यते । तस्य । राहुसन्देहम् राहुर्वाऽन्यद्वेति कोटिद्वयरूपानुभूति
विशेषम् । उदपादयत् अजनयत् आपादयामासेत्यर्थः ।
राहुः पर्वणि ग्रसते इदानीमपर्वण्यपि कथमत्तुं मामायाति अतोऽयं
राहुर्वाऽन्यद्वेति सूर्यस्संदेग्धीति भावः । मनोजवेन धावतामश्वानां
पादघट्टनैरुत्थितो धूलिनिचयो वियत्तलस्य स्वव्याप्त्या नैल्यमापादयन्
सर्पाकारो राहुरिवाभाति । राहुश्च कृष्णसर्पाकारः । तच्च रजस्सूर्य
स्थगयतीति तादृशसंदेहे बीजमभवत्तत् । अपर्वणि राहुसमागमोऽयं
 
प्रायशो
 
45