This page has not been fully proofread.

प्रथमसर्गः
 
}
 
आभ्यामाधेयभूतायाः कीर्तेराधारभूताद् ब्रह्माण्डादाधिक्यं गम्यत इत्यधि
कालङ्कारध्वनिरपि ॥
 
परिपन्थिनृपप्राण पवनाहारदारुणः ।
 
असृजद् भुजगो यस्य कृपाणः कीर्तिकञ्चकम् ॥ ॥34॥
 
"
 
परिपन्थीति ॥ यस्य कृपाणः खड्गः । परिपन्थिनः शात्रवाः
नृपा' भूपाला: 'छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि' इति निपात
नात्साधुः । यद्यपि छन्दस्येवायं निपातः तथापि छान्दसा अपि
क्वचिद्भाषायां भवन्ति 'मासश्छन्दसि इति वार्तिके छन्दोग्रहण
 
सामर्थ्यात् । अत एव बहुल कवय एनं प्रयुञ्जते । अमरवाह
 
प्रत्यथिपरिपन्थिन: ' इति । तेषां प्राणा: असवः त एव पवनाः
 
39
 
}
 
-
 
वायवः, तेषाम् आहार: भक्षणम् अपहरणं च । आङ्पूर्वाद्धरतेर्भावे
घञ् । तेन कर्मणा दारुणः भयावहः दयाविरहितश्च । सर्पाणां
पवनाशनत्वादेवमुक्तिः । कृपाणः खड्गः स एव भुजग सर्पः भुजेन
 
कौटिल्येन गच्छतीति भुजगः । 'गमेस्सुपि वाच्य' इति डः । कीर्तिः
यशः 'यशः कीर्तिस्समज्ञा च इत्यमरः । सैव कञ्चुकः निर्मोकः
' समौ कञ्चुकनिर्मोकौ' इत्यमरः । तम् असृजत् विससर्ज निर्ममौ
च । सृजतेः लङ् । सृज विसर्गे अयमकर्मक एव न सकर्मकोपि ।
अतएव 'कर्मवत्कर्मणा तुल्यक्रिय' इति सूत्रे सृजियुज्यो स्सकर्मकयोः
कर्मवद्भाव इति नागेशः । संग्रामभूमिषु वीरविहारं कुर्वतस्तस्य राज्ञः
करवीलः शतृसंहरणे नितरामुपकुर्वन् सर्पों यथा निर्मोकत्यागेन सुखी
 
• सम्पद्यते तथा शात्रवसंहरणेन दिगन्तेष्वनन्तमस्य यशो निर्माय कृत
कृत्योऽहं समभवमित्यमन्यतेति भावः । समस्तवस्तुविषयकं रूपक
मलङ्कारः ॥