मधुराविजयम् /172
This page has not been fully proofread.
9]
रसनाभिर्गीयमानाः रमाह्लादका भवन्तीति सारांशः । अत्र
यशस्संपदां चन्दनालेपनत्वादिकथनमनुपपन्नं सत् सादृश्यपर्यवसायि
संजातमिति पदार्थ निदर्शना । रूपकमित्येके । उल्लेख इत्यपरे ।
प्रथमसर्गः
66
37
विरोधिवाहिनीनाथ विक्षोभणपटीयसा ।
भुजेन भूभृता यस्य प्राप्ता कीर्तिमयी सुधा ॥ ॥ ३॥
विरोधीति ॥ विरोधः एषामस्तीति विरोधिनः शातवा राजानः ।
तएव वाहिनीनाथा: नदीपतयः समुद्राः । यद्वा विरोधिवाहिनीनाधाः
व्योममार्ग़
शत्रुसेनापतयः तएव विरोधिनः आकाशोपरोधिनः -
संचारिणः - अतिविवृद्धाः वाहिनीनाधाः समुद्रा इति वा । 'वाहिनी
स्यात्तरङ्गिण्यां सेनासैन्यप्रभेदयोः' इति विश्वः । तेषाम् विक्षोभणम्
व्याकुलीक़रणम, पीडनम् तदेव विक्षोभणम् संचालनम् मथनम् । क्षुभ
संचलने – ण्यन्ताद्भावे ल्युट् । तत्र पटीयसा अत्यन्तं पट्वा अतिचतुरेण
दक्षेण च । 'पटुर्दक्षे च नीरोगे चतुरेऽप्यभिधेयवत् ' इति मेदिनी ।
अयं मे ज्येष्ठोऽयं मध्यमोऽयं
S
बहुषु पुत्रेष्वेतदुपपन्नं भवति ।
"
कनीयान् " इत्याद्यन्तवत्सूत्रस्थ भाष्यप्रयोगादद्वयर्थोपपदेऽपीयसुन् । यस्य
राज्ञः भुजेन बाहुना तद्रूपेण भूभृता पर्वतेन मन्दराद्रिणा । कीतिरेव
कीर्तिमयी । ताद्रूप्ये मयट् । तदाकारा सुधा अमृतम् 'पीयूषममृतं
सुधा ' इत्यमरः । प्राप्ता लब्धा संपादिता आसादिता च । कर्तृभूत
देवादिगता प्राप्तिः करणे उपचर्यते । अस्य राजचन्द्रस्य वैरिविमर्दन
संजाता निजभुजबलाजिता कीर्तिर्देवासुरकृतमन्थानाचलमथनसंभवा सुधेव
सर्वजनसमादरणीया समभवदिति परमार्थः । अत्र ह्यवयवानामवय
विनश्च सामस्त्येन रूपणमिति समस्तवस्तुविषयं सावयवं रूपकम् ।
एकत्र श्लिष्टरूपकं च । पुरा देवा असुराश्च मन्दराचलं मन्थदण्डं
कृत्वा क्षीरोदं ममन्युः । तेन समुत्पन्ना सुधा देवताजीविकेति