मधुराविजयम् /171
This page has not been fully proofread.
मधुराविजये
समधिगततदर्थां
र्थवत्तां संपाद्य सर्वान् जनान् प्रत्यक्षप्रमाणेन
श्रकारेति भावः । दृशेर्ण्यन्तात्कर्मणि क्तः । अत्र जिष्णुना
इत्यादिपदार्थानां लोकपालसान्निध्यबोधनरूपवाक्यार्थी विशेषणगत्या
हेतुत्वमिति काव्यलिङ्गमलङ्कारः । तच्च श्लेषानुप्राणितमिति तयो
विस्पष्टस्संकरः । एकोऽयं जिष्णुत्वादिभिर्लोकपालास्सर्वेऽपि भूत्वा स्थित
इति वर्णनादेकैकश स्थितान् सर्वांस्तानतिशेतेऽयमिति ध्वननमत्रेति
व्यतिरेकालङ्कारध्वनिरपि ॥
36
"
हृदये चन्दनालेपैः कर्णे मौक्तिककुण्डलैः ।
सतां मुखे च कर्पूरै र्यस्याभावि यशोभरैः ॥ 1³1
,
।
हृदय इति ॥
यस्य प्रभोः यशोभरैः कीर्त्यतिशयैः अति
शयिताभिः कीर्तिभिः कर्तृभूतैरित्यर्थः । सताम् विदुषाम् सज्जनानां
वा । उत्तरत्राप्यस्य संबन्धोऽवगन्तव्यः । हृदये वक्षसि चन्दनानाम्
मलयजानाम् आलेपैः विलेपनैः चर्चाभिः सतीभिः । सताम् कर्णे
श्रवणेषु जातावेकवचनम् । मुक्काएव मौक्तिका: रत्नभेदाः । विनया
दित्वात् स्वार्थे ठक् । तेषां कुण्डलानि कर्णाभरणानि । प्रकृति
विकृतिभावे षष्ठी । मुक्तांखचितकर्णालङ्कारा इत्यर्थः । तैस्सद्भिः ।
सताम् मुखे मुखेषु 'च' इति पादपूरणे । ' तु हि च स्म ह
वै पादपूरणे' इत्यमरः । कर्पूरैः घनसारखण्डैस्सद्भिः अभावि आस्यत
भावे लुङ् । पुण्यपुरुषचरितश्रवणमननादीनामतीव दुरितनिवारकत्वस्य
शास्त्रदृष्टत्वादिति भावः । तस्य राज्ञस्सुचरितानि हृदि धारणात्
मलयजमिव सतां सुखमुत्पादयन्ति । कर्णसंयोजनात् मुक्तांमयकर्णा
लङ्कारा इव शोभाजनकानि भूत्वा क्षेमंकराणि भवन्ति ।
समाकलनात् घनसारस्सौगन्ध्यमुत्पाद्य तन्मालिन्यमिव नीचपुरुषस्तुति
मुख
मृषाभाषणादिसंजातं कालुष्यमपनोद्य तत्पावयन्तीति श्लोकार्थः । तस्य
कीर्तयस्सतां हृदयाह्लादका भवन्ति । श्रवणपेया भवन्ति ।
नित्यं