मधुराविजयम् /169
This page has not been fully proofread.
(34
मधुराविजये
तिग्मांशोरपि तेजस्वी शीतांशोरपि शीतलः ।
सागरादपि गम्भीर स्सुमेरोरपि य स्थिरः ॥ ॥28॥
तिग्मांशोरिति ॥ यः राजा । तिग्मा तीक्ष्णा: अंशवः किरणा:
यस्य तस्मात् तिग्मांशो: सूर्यादपि प्रशस्तं तेजोऽस्य तेजस्वी पराभि
भावकपराक्रमवान्, तादृशदीप्तिमांश्च । 'तेज़: प्रभावे दीप्तौ च '
इत्यमरः । 'तेजो धाम्नि पराक्रमे ' इति विश्वोऽपि । शीताः हिमाः
अंशवः क़िरणाः यस्य तस्मात् शीतांशो: चन्द्रादपि । शीतम् शैत्यम्,
तदिव सुखजनकत्वम् (तदिव) प्रसन्नता आह्लादकत्वं च अस्यास्तीति
शीतलः 'सिध्मादिभ्यश्च' इति लः । सगराणामयम् सागरस्समुद्र
"तस्येद' मित्यण् । तस्मादपि गम्भीरः गाम्भीर्यवान् । गाम्भीर्यं च
निम्नत्वम्, सत्यपि विकारे सावहित्थत्वं च । सुमेरु: हेमाद्रि: 'मेरुस्सुमे रु
हेमाद्रिः' इत्यमरः । तस्मादपि स्थिरः निश्चलः धीरश्च । तेज
स्वित्वादयो नायकगुणाः अस्मिन् वर्ण्यन्ते । उपमानमुपमेयापेक्षया
यद्यप्युत्कृष्टधर्म तथाप्युपमेयस्याधिक्यवर्णनमत्रेति व्यतिरेकः । 'व्यति
रेको विशेषश्चेदुपमानोपमेययोः' इति तल्लक्षणात् ॥
विवेकमेव सचिवं धनुरेव वरूथिनीम् ।
बाहुमेव रणोत्साहे यस्सहायममन्यत ॥ 112911
विवेकमिति ॥ यः राजा रणस्य उत्साह रणोत्साहः युद्धार्थ उद्यमः
'उत्साहस्तूद्यमे सूत्रे' इत्यमरसुधा । अश्वघासादिवत् षष्ठीसमासः । तस्मिन्
शात्रवविजयसम्पादन इत्यर्थः । विवेकः शास्त्रजनितविज्ञानसंस्कृत
बुद्धया कार्याकार्यविवेचनम् । विचिर् पृथग्भावे-इत्यस्माद्भावे घञ् । च
जो कुघिण्ण्यतोः' इति कुत्वम् । तमेव सचिवम् मन्त्रिणम् तद्वत्
कार्याकार्यनिर्णायकम् । मन्त्रिणस्तु तस्य छत्रचामरादितुल्या इति
भावः । धनुः स्वकार्मुकम् तदेव वरूथिनीम् सेनाम् चतुरङ्गबलम्
'वरूथिनी बलं सैन्यम्' इत्यमरः । तद्वत् विजयसाधकम् । सैन्यं तु
S