This page has not been fully proofread.

8]
 
प्रथमसर्गः
 
"
 
धिक्करोतीति तस्य विभुता प्रशस्यते । एतेन महाभाग्यत्वमभिहितम् ।
विश्वम्भराधिपत्यं यत्तन्महाभाग्यमुच्यत इति लक्षणात् । समस्त
सामन्तमस्तकन्यस्तेत्यादौ वर्णानां पुनःपुनरावृत्त्या वृत्त्यनुप्रासो नाम
शाब्दोऽलङ्कारः ॥
 
इतः परं षोडशभिरश्लोक: बुक्कराजं प्रस्तौति –
 
यश्शेष इव नागानां नगानां हिमवानिव ।
दैत्यारिरिव देवानां प्रथमः पृथिवीभुजाम् ॥ 112711
 
66
 
य इति ॥ यः राजा । नागा: बहुफणास्सर्पाः तेषाम् । निर्धारणे
षष्ठी । तेषां मध्ये इत्यर्थः । शेष भुज़गस्वामी अनन्तः स इव ।
न गच्छन्तीति नगाः स्थावराः पर्वताः । गमेर्ड: । 'नगोऽप्राणिष्व
न्यतरस्याम् ' इति नञः प्रकृतिभावश्च । तेषां मध्ये हिममस्तीति
हिमवान् तन्नामा पर्वतराज़' । 'तदस्यास्त्यस्मिन्' इति मतुप् । 'मादुपधा
याच मतोः' इत्यादिना मतुपो मस्य वः । स इव । देवाः अमराः
'अमरा निर्जरा देवाः' इत्यमरः । तेषां मध्ये । दैत्यानाम् राक्षसानाम्
अरिः शत्रुः विष्णुः 'दैत्यारि: पुण्डरीकाक्षः' इत्यमरः । स इव । पृथिवीम्
भूमिम, भुञ्जति पालयन्तीति पृथिवीभुजः भूभुजः भूपालाः । 'भुज
पालनाभ्यवहारयोः' इति पालनार्थकात् भुजेः 'क्विप्च' इति क्विप् ।
तेषां मध्ये प्रथमः प्रधानः
भवेदादौ प्रधानेऽपि च वाच्य
प्रथमस्तु
 
वत् ' इति मेदिनी । शेषादयो यथा भगवतो नारायणस्य विभूति
 
अनन्त
 
विशेषास्तथा बुक्कराजोऽयमपीति भावः । तथाचोक्तं शेषादीनां भगव
"आदित्यानामहं विष्णुः
दंशसम्भूतत्वं गीतायाम्
वास्मि नागानां स्थावराणां हिमालयः" इति । एकस्यैवोपमेयस्य
बहूपमानताऽवेति मालोपमेयम् । रुद्रटस्तु धर्मभेदे सत्येव मालोपमेति
मन्यते ॥
 

 
33
 
"
 
....