This page has not been fully proofread.

32
 
मधुराविजये
 
अर्हा भवथ । 'अर्ह – पूजायाम' लट् । काव्यश्रवणे दत्तचित्ता स्थ
यूयमिति सहृदयान् विद्वज्जनान् स्वक़ाव्यारम्भमवगमयतीयं कवयित्री
एतच्छ्लोकमुखेन ग्रन्थमात्रस्यावश्यंभाव्यनुवन्धचतुष्टयं च निर्दिश्यते
विबुधा अर्हथ ' इत्यनेन विद्वज्जनाः कवयोऽस्मिन्नधिकारिण इत्युक्तं
भवति । तच्छब्दश्च पूर्वपरामर्शी सन् काव्यप्रयोजनानि पुनरुपाददत्
कीर्त्यादयः प्रयोजनानीत्यभिदधाति । ' चरितं कम्पभूपतेः' इत्यनेन
ग्रन्थविषयः प्रतिपाद्यो निर्दिष्ट: । ग्रन्थविषययोश्च संबन्ध प्रतिपाद्य
प्रतिपादकभाव एवेति सोऽप्यभिहितप्राय इति ॥
 
"
 
-
 
स्वनायकचरितं वर्णयितुकामा तदङ्गतया तत्पित्रादीनामिति
वृत्तं प्रथमतः कथयितुं प्रक्रमते
 
-
 
आसीत् समस्तसामन्त मस्तकन्यस्तशासनः ।
बुक्कराज इति ख्यातो राजा हरिहरानुजः ॥ 112611
 
आसोदिति ॥ समस्ता: अशेषाः । समन्तायाः स्वदेशानन्तरायाः
भूमेः इमे (राजानः) सामन्ता: । 'तस्येदम्' इत्यण् । तेषाम् मस्तकानि
शिरांसि तेषु न्यस्तम् निक्षिप्तम् शिरोभिर्वृतम् आदरातिशयेन परिपालित
मिति यावत् । निपूर्वादस्यतेः क्तः । शासनम् आज्ञा यस्य तथोक्तः । शास्ति
अनेनेति करणे ल्युट् । बुक्क इति राजा बुक्कराज' । 'विशेषणं विशेष्येण
बहुल' मिति सूत्रे बहुलग्रहणेन व्याप्यव्यापकयोर्व्यापकस्य विशेष्यतैवेति
वैयाकरणसिद्धान्तः। 'राजाहस्सखिभ्यः' इति टच् । इति एवंप्रकारेण
ख्यातः जनैः प्रकथितः हरिहरस्य तन्नाम्नः राज्ञः अनुजः अवरज
कनीयान् भ्राता ' उपसर्गे च ' इति डः । राजा अधीश्वर: 'राजा तु
प्रणताशेषसामन्तस्स्यादधीश्वरः' इत्यमरः । आसीत् बभूव । अस्तेर्लङ् ।
'अस्तिसिचोऽपृक्ते' इतीडागमः । सर्वेऽपि मण्डलेश्वराः विजयनगराधीश्व
रस्य बुक्कभूपते राज्ञावशवर्तिनो बभूवुः । न कश्चिदपि तस्य शसानं