मधुराविजयम् /166
This page has not been fully proofread.
प्रथमसर्ग:
तन्मदीयमिदं काव्यं विबुधाः श्रोतुमर्हथ ।
मधुराविजयं नाम चरितं कम्पभूपतेः ॥
112511
तन्मदीयमिति ॥ विबुधाः विशेषेण बुध्यन्ते जानन्ति काव्य
मर्माणीति ते, तस्य संबुद्धिः विबुधाः । — बुध अवगमने 'इति
दिवादेः 'इगुप ' धेति कः । तत् - यत् सहृदया यूयं तत इत्यर्थः ।
मम इदम् मदीयम् । ' त्यदादीनि च ' इति वृद्धसंज्ञायाम,
"6
31
वृद्धाच्छः' इति छः । इदम् सन्निहितम् बुद्धिस्थम बुद्धया परि
गृहीतस्यैव सर्वनाम्ना निर्देशः क्रियते, सर्वनाम्नां बुद्धिस्थ परामर्शकत्वात् ।
मधुरायाः तदाख्यायाः दक्षिणदिक्स्थाया नगर्या: । कर्मणि षष्ठी ।
विजय: विजयनम् शानवाभिभवपूर्वक ग्रहणम् - आक्रमणमिति यावत् ।
विपूर्वाज्जयतेर्भावे 'एरच्' । 'कर्तृकर्मणोः कृति' इति कर्मषष्ठ्या
समासः । 'न च कर्मणि' इति षष्ठीसमासनिषेधश्शङ्ख्यः । 'उभयप्राप्तौ
कर्मणि' इति विहितषष्ठ्या एवायं निषेधः । नतु 'कर्तृकर्मणो कृति '
इत्यस्य । 'उभयप्राप्तौ कर्मणि' इत्यत्र प्राप्तिग्रहणसामर्थ्यात्कर्तृकर्मणो
रुभयोस्सन्निधान एव तन्निषेधप्रवृत्तेः प्रामाणिकैरभ्युपगमात् । अत्र च कर्तुः
कम्प राजस्यानुपादानमिति न तत्प्राप्तिसंभावनापि । अतएव कैयट आह
" मिति
अत्र चाचार्यस्य कर्तुः प्रयोजनाभावा
दनुपादानादुभयप्राप्त्यभावान्नोभयप्राप्तौ कर्मणीत्यनेन षष्ठी । अपितु
कर्तृकर्मणोः कृतीत्यनेनेति कर्मणि चेति समासप्रतिषेधाप्रसङ्गादिध्म
प्रव्रश्चनादिवत्समास: ' इति । सः अस्मिन्नस्ति प्रतिपाद्यत्वेनेति 'अर्श
आदिभ्योऽच् । तथोक्तम् । नामेत्यव्ययं प्रसिद्धौ । मधुराविजय
मिति नाम्ना प्रख्यातमित्यर्थः । कम्पः कम्पन: सचासौ भूपतिः
राजा तथोक्तः । तस्य चरितम् चरित्रम् तदात्मकमित्यर्थः । काव्यम्
कवेः कर्म । पङ्कज़ादिवद्योग रूढमिदमिति पूर्वमुक्तम् । महाकाव्य
'मित्यर्थः । अनेन ' वीरकम्पराजचरितम् ' इत्यपरं नामाप्यस्य सूच्यते ।
तत्तु आकर्णयितुम् प्रेरणां विनैव श्रवणपेयं कर्तुम् अर्हथ
"
शब्दानुशासन
"
-