This page has not been fully proofread.

मधुराविज़ये
 
यद्यप्यर्थनिर्देशः क्रियते धातुपाठे, तथापि मैत्रेयरक्षितेन 'प्राणिग्रहण
मतन्त्रम्' अप्राणिप्रसवेऽपि वर्तते, प्रसूनं धान्यमिति व्याख्योतत्वादत्र
न दोषः । एवं सत्काव्यस्य बहूनि प्रयोजनाति सन्तीत्यभिधाय महा
काव्यसंस्तुत्या पण्डितान् मन्दात्मनश्च काव्यश्रवणप्रवणानकरोदियं
क़वयित्री । "काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः पर
निर्वृतये कान्तासम्मिततयोपदेशयुजे ॥" इत्यालङ्कारिकैर्यान्युक्तानि काव्य
प्रयोजनानि तानि सर्वाण्यत्र संगृहीतानीत्यवधेयम् ॥
 
30
 
भावकाः स्वतएव काव्येषु दत्तमनस इति व्यक्तमाभाषते
 
न प्रार्थनीयस्तत्काव्य श्रुत्यै सहृदयो जनः ।
स्वादुपुष्परसास्वादे कः प्रेरयति षट्पदम् ॥
॥ 112411
 
न प्रार्थनीय इति ॥ तत् पूर्वोक्तम् पूर्वप्रसक्तमित्यर्थः । काव्यम्
सत्काव्यमिति यावत् । तस्य श्रुत्यै आकर्णनाय 'श्रु श्रवणे ' भावे
क्तिन् । सहृदयः हृदयेन सहितः । हृदयं च रसाद्यनुभूतिविशेषभाजन
मन्तःकरणं विवक्षितम् । प्रार्थनीयः अभ्यर्थयितव्यः ममेदं काव्यम्
श्रूयतां भवानिति प्रेरयितव्यः । न न भवति । रसग्रहणलुब्धत्वात्
सहृदयस्येति भावः । तत्र च हेतुं दृष्टान्ततो विवृणुते :- षट् पदानि
यस्य तम् षट्पदम् भ्रमरम् द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः
 
(
 
इत्यमरः । स्वादुः इष्टः मधुरच 'इष्टमधुरौ स्वादू
 
(
 
इत्यमरः । तस्य
 
यः पुष्परसः मकरन्दः मकरन्दः पुष्परसः
आस्वादः पानम् अनुभवश्व, तस्मिन् तद्विषये कः कोवा जनः प्रेर
यति चोदयतीति काकुः । न कश्चिदपीत्यर्थः । तत्र तस्य प्रवृत्तिः
प्रकृतिसिद्धा तथैव सहृदयस्थापीति भावः । अत्र पूर्वार्धप्रत्युत्तरार्धस्य
हेतुत्वात्काव्यलिङ्गमलङ्कारः ॥
 
इदानीं स्वकाव्यार्थमुपक्रममाणा प्रस्तावमुपसंहरति
 

 
.
 

 
"
 
>
 
" इत्यमरः ।