This page has not been fully proofread.

26
 
मधुराविजये
 
गुणं विहाय काव्येषु दुष्टो दोषं गवेषते ।
वनेषु त्यक्तमाकन्दः क़ाको निम्बमपेक्षते ॥
 
112011
 
,
 
गुणमिति ॥ दुष्ट: गर्हाः जनः दुष्कविरित्यर्थः । काव्येषु महा
कविनिर्मितेषु प्रबन्धेषु । गुणम् जातावेकवचनम् । काव्यगुणान् रसा
श्रयानित्यर्थः । विहाय त्यक्त्वा बुद्धिपूर्वकं निरस्येत्यर्थः । विहायेति
विभक्तिप्रतिरूपकं ल्यबन्तमव्ययम् । दोषम् जातावेकवचनम् । दोषान्
कायदोषान् रसभञ्जकानित्यर्थः । गवेषते मृगयते दोपत्रकथनार्थेऽ
त्यन्तं प्रयतत इत्यर्थः । अत्र दुष्ट: - दोष इति च पदे अस्य दोष
स्वीकारः प्रकृतिसिद्धो गुण इति तत्र च हेतुस्तस्य दौष्टयमेवेति च
द्योतयतः । अमुमेवार्थ दृष्टान्तमुखेन विशदयति वनेषु अटवीषु ।
बहुवचनेन तत्र महौषधिलताफलवृक्षाणां रमणीवानां नैकविधानां सत्त्वं
प्रतीयते । एवं काव्येष्विति वहुक्त्यापि तत्र रमणीवार्थप्रतिपादकानां
शब्दार्थप्रभृतीनां बहूनां सत्त्वं द्योत्यते । काकः वायसः व्यक्तः परि
हृतः विसृष्टः माकन्दः चूतवृक्षः येन तथा भूतस्सन् । निम्बम् तिक्त
गुणायम् अरिष्टतरुम् अपेक्षते आश्रयते । स्वनिवासायंकरोतीत्यर्थः ।
अरिष्टः काकः, अरिष्टरु निम्ब: । द्वयोरप्यमङ्गलप्रदत्वेन कञ्चन
सम्बन्धी वर्तत इति तस्य तदपेक्षायां हेतुः प्रतिभाति । एवमेव
दुष्टोऽयम्, दोषश्च स इति तदन्वेष तस्य प्रवृत्तिज्यत इति प्रतीयते ।
यथावा माकन्दतरुवर्जनेन काकस्य मन्दबुद्धित्वमेव प्रकटितं भवति नैव
तस्य वृक्षस्य न्यूनता, तथा गुणपरित्यागेन स्वाज्ञानपरिकलितदोषा
भासप्रदर्शनेन च लोकस्य तदसूयापरत्वहेतुकमज्ञानप्रावल्यमेव विदितं
भवति न तेन सत्काव्यस्य कश्चिदव्यपकर्ष इति भावः । 'दुष्टो दोषं
गवेषत' इत्यत्र यतोऽयं दुष्टस्ततोऽयं दोषं गवेषत इति पदार्थस्य
वाक्यार्थे हेतुत्वात्काव्यलिङ्गमलङ्कारः । गुणदोषयोर्माकन्दनिम्बयोश्च
सादृश्यात्काकदुष्टयोस्साम्यमवगम्यते । साम्यं च वस्तुप्रतिवस्तुभावेन
शिर्दिष्ट मिति प्रतिवस्तूपमा । माकन्दपदेन च ' कं सुखं ददाति' कन्दः ।
 
-